2023-06-05 16:40:24 by ambuda-bot
This page has not been fully proofread.
२४०
नीलकण्ठविजये संव्याख्याने
स्फुटितकमलजाण्डभाण्डप्रचण्डखनोत्प्रेक्षण-
क्षुभितविबुधमुक्तहाहारवैश्वाहसीदच्युतः ॥ ५१ ॥
निर्मग्नमन्दरमणि तिसम्प्रदिग्धा
निष्पेरम्बरतले यसः कणा ये ।
लग्नाश्विराय लिंकुचामलकाम्रमात्राः
तारास्त एव परिणेमुरिति प्रतीमः ॥ ५२ ॥
उत्पद्यमाना ये लोला: तरलाः, कल्लोलास्तरङ्गाः तेषां यः कोलाहल: कलकलध्वनिः
तस्य व्यतिकरः संपर्क: तेन । अथवा, स्खलंदचलस्य उद्भवल्लोलकल्लोलानां चेति
द्वयोंय कोलाहलो तयो सम्पर्क: तेनेति वा बोध्यम् । बधिरा: अश्रोत्रेन्द्रियकल्पाः
भ्रमन्तो घूर्णमानाः कूर्मनकद्विपा कच्छप ग्राहगजा: । 'कूर्मे कमठकच्छपौ', 'ग्राहो-
वहारो नक्रस्तु', 'द्विरदोऽनेकपो द्विप इति च अमरः । तेषां यानि क्रन्दितानि ।
भावे क्तः । रोदनान्याह्वानानीति वार्थः । 'क्रन्दितं रुदिताहाने' इति नानार्थ-
'माला । तैः स्फुटितं कर्तरि क्त: । स्फोटं विदळनं प्राप्तमित्यर्थः । यत्कमलजस्य
ब्रह्मण: अॅण्ड कोश: । 'पेशी कोशो द्विहीनेऽण्डम्' इत्यमरः । तदेव भाण्डं
कटाहुरूपभाजनम् । 'सर्वमापन भण्डं पात्रामत्रे च भाजनम्' इत्यमरः ।
तस्य न्यः प्रचण्डस्वनः दुस्सहध्वनिः स इत्येवं यदुत्प्रेक्षण उहः तेन क्षुभिताः
क्षोभं तारळ्यं प्रापिताः, ये विबुधा देवाः तैः मुक्ताः कृता हाहारवाः हाहाध्वनयः
तैश्च अच्युतः श्रीहरिः अहसीत् हास चकारेत्यर्थः । को वा तत्त्वज्ञः पामरानमरान्
दृष्ट्वानः हस्तीति भावः ॥ निर्ममेति ॥ निमम: नितरामापातालं मज्जनमाश्रित
इत्यर्थः। यो मन्दरः तस्य ये मणय:-
वज्रादयः तेषां युतयः । 'भाश्छविर्द्युतिदीप्तयः'
इत्यमरः । तासिस्सह प्रदिग्धाः व्याप्ताः, लिप्ता इति वाऽर्थः । पयसः क्षीरस्य ।
'पयः क्षीरं पयोऽम्बु: च. इत्यमरः । ये कणाः लेशाः । 'लवलेशकणाणव:'
इत्यमरः । अम्बरतले व्योनि । "व्योम पुष्करमम्बरम्' इत्यमरः । निष्पेतुः
उत्पतनं चक्रुरित्यर्थः। लिकुचामलकाम्राणि लिंकुचामलकचूतफलानि प्रमाणं येषां
ते तथा । 'प्रमाणे द्वयसज्दमंञ्मात्रच: १ (5-2-37 ) इति मात्र प्रत्ययः ।
'लकुचो लिकुचो डहु:' 'तिष्यफला त्वामलकी त्रिषु' 'आम्रश्चतो रसालोऽसौ '
इति च अमरः । चिराय चिरकालात् । 'चिराय: चिररात्राय- चिरस्याद्याश्विरार्थकाः