This page has been fully proofread twice.

ततश्च ।
 
सुरासुरकरोदरस्खलितशैलमूलस्थल
स्थितोपलतलाहतिक्षुभितसिन्धुबन्धूत्थितः
भ्रमत्तिमितिमिङ्गिलभ्रमितवालकोलाहलैः
समं निखिलमम्बरं परिववार तारस्वनः ॥ ५० ॥
 
स्खलदचलसमुद्भवल्लोलकल्लोलकोलाहल-
व्यतिकरबधिरभ्रमत्कूर्मनक्रद्विपक्रन्दितैः ।
 
[commentary]
 
परमात्मनि' इति नानार्थमाला । विलोकयन्तः पश्यन्तः अमराणां देवानां ओघाः स्तोमाः । 'स्तोमौघनिकरव्रात' इत्यमरः । चेतसा चित्तेन । 'चित्तं तु चेतो हृदयम्' इत्यमरः । कार्यम् अमृतप्राप्त्युपायानुचिन्तनादिरूपं कर्म तदेव भारो धूः तं परिजहुः परितत्यजुरित्यर्थः । उभये द्वितये ते देवासुराः, पाणिभिर्हस्तैः समुद्र इति शेषः । शैलस्य अद्रेर्भारं वहनम् 'डु भृञ् धारणे' इति धातोर्भावे घञ्प्रत्ययः । यद्वा शैल एव भारः तमित्यर्थः । परिजहुः परिजह्रुः । मन्दरमुदधौ परिपातयामासुरिति भावः । अथ दूरादूर्ध्वदेशादर्णवे मन्दरे पातिते तदा महानारवः उदभूदित्याशयेनाह ॥ सुरासुरेति ॥ सुरासुराणां देवासुराणां करोदराणि हस्ततलानि तेभ्यः स्खलितः च्युतो यः शैलः मन्दरः, तस्य यन्मूलस्थलं अधस्तलप्रदेशः तस्मिन् ये स्थिता उपलाश्शिलाः तेषां तलानि अधः प्रदेशाः । 'तलं स्वरूपाधरयोः' इति नानार्थमाला । तैराहतिः आघातः तया क्षुभितः क्षोभं तारळ्यं प्रापितः, स चासौ यः सिन्धूनां सरितां बन्धुः स्वजनः । समुद्र इति तात्पर्यार्थः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' 'सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः' इति च अमरः । 'बन्धू बन्धूकबान्धवौ' इति नानार्थमाला च । तस्मादुत्थित उत्पन्नः, तारध्वनिः उच्चरवः भ्रमन्तः विघूर्णमाना ये तिमयः मत्स्यविशेषाः तिमिङ्गिलास्तद्भक्षकमत्स्यविशेषाः । 'राजीवश्शकुलस्तिमिः' । 'तिमिङ्गिलादयश्चाथ' इति च अमरः । उभयेषां तेषां भ्रमितानि विघूणितानि यानि वालानि वालधयः तेषां कोलाहलाः कलकलाः 'कोलाहलः कलकलः’ इत्यमरः । तैस्तैस्समं निखिलं कृत्स्नं अम्बरं परिववार आवृतिं चकार ॥ स्खलदिति ॥ स्खलन् मज्जन् योऽचलो मन्दरः, तेन करणभूतेन उद्भवन्तः