2023-06-05 16:40:24 by ambuda-bot
This page has not been fully proofread.
ततश्च ।
तृतीयाश्वासः
सुरासुरकरोदरस्खलितशैलमूलस्थल
स्थितोपलतलाहतिक्षुभितसिन्धुबन्धूत्थितः
भ्रमत्ति मितिमिङ्गिलभ्रमितवालकोलाहलैः
।
समं निखिलमम्बरं परिववार तारस्वनः ॥ ५० ॥
स्खलदचलसमुद्भवल्लोलकल्लोलकोलाहल-
व्यतिकरबधिरभ्रमत्कूर्मनक्रद्विपक्रन्दितैः ।
7
२३९
.
परमात्मनि' इति 'नानार्थमाला । विलोकयन्तः पश्यन्तः अमराणां देवानां
ओघाः स्तोमाः । 'स्तोमौघनिकरत्रात ' इत्यमरः । चेतसा चित्तेन । 'चित्तं तु
चेंतो हृदयम्' इत्यमरः । कार्यम् अमृतप्राप्त्युपायानुचिन्तनादिरूपं कर्म तदेव
भारो धू: तं परिजहुः परितत्यजुरित्यर्थः । उभये द्वितये ते देवासुराः,
पाणिभिर्हस्तैः समुद्र इति शेषः । शैलस्य अद्रेर्भारं वहनम् 'डु भृञ् धारणे' इति
घातर्भावे घञ्प्रत्ययः । यद्वा शैल एव भारः तमित्यर्थः । परिजहुः परिजहुः ।
मन्दरमुदधौ परिपातयामासुरिति भावः । अथ दूरादूर्ध्वदेशादर्णवे मन्दरे पातिते
तदा महानारवः उदभूदित्याशयेनाह ॥ सुरासुरेति ॥ सुरासुराणां देवासुराणां
करोदराणि हस्ततलानि तेभ्य: स्खलितः च्युतो यः शैल: मन्दर, तस्य यन्मूल-
स्थलं अधस्तलप्रदेशः तस्मिन् ये स्थिता उपलाश्शिलाः तेषां तलानि अधः
प्रदेशा: । 'तलं स्वरूपाघरयोः' इति नानार्थमाला । तैराहति: आघात: तया
क्षुभितः क्षोभं तारळ्यं प्रापितः, स चासौ यः सिन्धूनां सरितां बन्धुः स्वजनः ।
समुद्र इति तात्पर्यार्थ: । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्
(सगोत्रंबान्धवज्ञा तिबन्धुस्वस्वजनास्समा: ' इति च अमरः । 'बन्धू बन्धूकबान्धवौ'
इति नानार्थमाला च । तस्मादुत्थित उत्पन्नः तारध्वनिः उच्चरवः भ्रमन्तः
विघूर्णमाना ये तिमयः मत्स्यविशेषा: तिमिङ्गिलास्तद्भक्षकमत्स्यविशेषाः । 'राजी-
वश्शकुलस्तिमिः' । 'तिमिङ्गिलादयश्चाथ' इति च अमरः । उभयेषां तेषां भ्रमितानि
विघूणितानि यानि वालानि वालधयः तेषां कोलाहला: कलकला: 'कोलाहल:
कलकुल इत्यमरः । तैस्तैस्समं निखिलं कृत्स्नं अम्बरं परिववार आवृतिं चकार
॥ स्खलदिति ॥ स्खलन् मजनू योऽचलो मन्दरः, तेन करणभूतेन उद्भवन्तः
स