This page has been fully proofread twice.

अथ तमतर्कितोपनिष्क्रान्तमरविन्दनाभमवसरज्ञो विधिरर्धपथे समेत्य सह महर्षिभिर्विविक्तसेवावसरलाभविस्मयानन्दमन्थरः पश्यन्तमचलनिपातकौतुकं परिवार्य केवलमवतस्थे ।
 
नवकुवलयदामश्यामस्निग्धमुग्धं
नलिननयनमाद्यं तत्त्वमालोकयन्तः ।
परिजहुरमरौघाश्चेतसा कार्यभारं
परिजहुरुभये ते पाणिभित्रश्शैलभारम् ॥ ४९ ॥
 
[commentary]
 
निर्गच्छति तथैव भगवान्निर्जगामेति भावः । अथ समागतं श्रीहरिं दृष्ट्वा ब्रह्मा विद्यमानं पर्वतपातनक्रमदर्शनकौतूहलमपि त्यक्त्वा तमेव पश्यन्नासेत्याह ॥ अथेति ॥ अथ अनन्तरं अर्धं पन्थाः अर्धपथः । 'ऋक्पूरब्धूः पथामानक्षे' (५.४.७४) इति समासान्तोऽप्रत्ययः । तस्मिन्नर्धमार्ग इत्यर्थः । अतर्कितः अनुत्प्रेक्षितः, उपनतः प्राप्तः तथाभूतः तमरविन्दनाभं पद्मनाभं अवसरस्समयस्तं जानातीत्यवसरज्ञः विधिः, ब्रह्मा । 'विधाता विश्वसड्विधिः' इत्यमरः । महर्षिभिः वसिष्ठादिभिस्सह समेत्य समीपं गत्वेत्यर्थः । विविक्तो विजनप्रदेशः । 'विविक्तौ विजनच्छन्नौ' इत्यमरः । तस्मिन् सेवा परिचरणं तस्य क्रमः परिपाटी तस्य अवसरः समयः तस्य लाभः प्राप्तिः तेनः यो विस्मयः आश्चर्यम् अत्यन्तदुर्लभलाभादिति भावः । स च आनन्दश्चेति ताभ्यां मन्थरः मेदुरः । विस्मयानन्दभरित इति भावः । तं भगवन्तं पश्यन् सन् अचलः मन्दराद्रिः, तस्य पातः पतनं तस्मिन् कौतूहलं कुतुकं परिवार्य परिवृत्य, तं केवलं श्रीहरिमेवेत्यर्थः । पश्यन् दर्शनं कुर्वन् अवतस्थे आसामासेत्यर्थः । 'समवप्रविभ्यः स्थः (१.३.२२) इति तिष्ठतेरात्मनेपदं लिट् । एतद्दर्शनादेव तस्य अमृतलाभात्तद्दर्शनादस्य तदभावादत्रैव तस्थाविति भावः॥ नवेति ॥ नवानि सद्योविकसितानि यानि कुवलयानि नीलोत्पलानि । 'स्यादुत्पलं कुवलयम्' इत्यमरः । तेषां दामानीव श्यामलो नीलः । 'कालश्यामलमेचकाः’ इत्यमरः । तथाभूतः स्निग्घो मनोहरः मुग्घः सुन्दरश्च तथाभूतम् । 'मुग्धस्सुन्दरमूढयोः' इति विश्वः । नळिने पद्मे इव नयने नेत्रे यस्य स तथाभूतम् । 'वा पुंसि पद्मं नळिनम्’ इत्यमरः । तथाभूतं श्रीहरिं आद्यं जगत्कारणमित्यर्थः । तत्त्वं परमात्मानमित्यर्थः । 'तत्त्वं विलम्बमाने स्यात् स्वरूपे