This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सेव्याख्याने
 
अथ तमतर्कितोपनिष्क्रान्तमरविन्दनाभमवसरज्ञो विधिरर्धपथे
समेत्य सह महर्षिभिर्विविक्त सेवा वसरला भविस्मयानन्दमन्थर: पश्यन्त-
रः पश्यन्तमचलनिपातकौतुकं परिवार्य केवलमवतस्थे ।
 

 
नवकुवलयदामश्यामस्निग्धमुग्धं

नलिननयनमाद्यं तत्त्वमालोकयन्तः ।

परिजहुरमरौघाश्चेतसा कार्यभा
 
रं
परिजहुरुभये ते पाणिभित्रशैलभारम् ॥ ४९ ॥
 
2
 
:
 

 
[commentary]
 
निर्गच्छति तथैव भगवान्निजंर्जगामेति भावः । अथ समागतं श्रीहरिं दृष्ट्वा ब्रह्मा
विद्यमानं पर्वतपातनक्रमदर्शनकौतूहलमपि त्यक्त्वा तमेव पश्यन्नासेत्याह
अथेति ॥ अथ अनन्तरं अर्धं पन्थाः अर्धपथः । 'ऋक्पूरब्धू:धूः पथामानक्षे' ( 5-4-74५.४.७४)
इति समासान्तोऽप्रत्ययः । तस्मिन्नर्धमार्ग इत्यर्थः । अतर्कितः अनुत्प्रेक्षितः, उपनतः
प्राप्तः तथाभूतः तमरविंविन्दनासंभं पद्मनामंभं अवसरस्समयस्तं जानातीत्यवसरज्ञः
विधिः, ब्रह्मा । 'विधाता विश्वसडिधि:ड्विधिः' इत्यमरः । महर्षिभिः वसिष्ठादिभिस्सह
समेत्य समीपं गत्वेत्यर्थः । विविक्तो विजनप्रदेश:शः । 'विविक्तौ विजनच्छन्नौ'
इत्यमरः । तस्मिन् सेवा परिचरणं तस्य क्रमः परिपाटी तस्य अवसर:रः समयः
तस्य्-
तस्य लाभः प्राप्तिः तेनः यो विस्मयः आश्चर्यम् अत्यन्तंदुर्लभलाभादिति भावः ।
च आनन्दश्चेति ताभ्यां मन्थरः मेदुरः । विस्मयानन्दभरित इति भावः ।
तं भगवन्तं पश्यन् सन् अचलः मन्दराद्रिः, तस्य पात:तः पतनं तस्मिन् कौतूहलं
.
कुतुकं परिवार्य परिवृत्य, तं केवलं श्रीहरिमेवेत्यर्थः । पश्यन् दर्शनं कुर्वन् अवतस्थे
:
आसामासेत्यर्थः । 'समवप्रविभ्यः स्थः? (1-3-22१.३.२२) इति तिष्ठतेरात्मनेपदं लिट् ।
एतद्दर्शनादेव तस्य अमृतलाभात्तद्दर्शनादस्य तदभावादत्रैव तस्थाविति भावः
॥ नवेति ॥ नवानिःनि सद्योविकसितानि यानि कुवेलयानि नीलोत्पलानि ।
'स्यादुत्पलं कुवलयम्' इत्यमरः । तेषां दामानीव श्यामलो नीलः । 'कालश्या-
:
मलमेचका: "काः’ इत्यमरः । तथाभूतः स्त्रिनिग्घो मनोहर:रः मुग्घ:घः सुन्दरश्च तथाभूतम् ।
'मुग्धस्सुन्दरमूढयो: योः' इति विश्वः । नळिने पद्मे इव नयने नेत्रे यस्य स
तथा भूतम् । 'वा पुंसि पद्मं नळिनम् इत्यमरः । तथाभूतं श्रीहरिं आद्यं
जगत्कारणमित्यर्थः । तत्त्वं परमात्मानमित्यर्थः । 'तत्त्रेवं विलम्बमाने स्यात् स्वरूपे
 
Y