This page has been fully proofread twice.

दिव्यैः पञ्चभिरायुधैस्सविनयैराबद्धसेवाक्रमः
तत्कालोपनतैस्तपोधनगणैर्धन्यैर्वृतः कैरपि ।
[^१]अभ्यर्णे वसतस्तदा खगपतेरालम्ब्य हस्तं शनैः
विष्वक्सेननिवेद्यमानसरणिर्विश्वम्भरो निर्ययौ ॥ ४८ ॥
 
[commentary]
 
सादृश्यवाचकानामीशकालमेघेवशब्दानां त्रयाणां उपादानेऽपि साधारणधर्मवाचकपदानुपादानाल्लुप्तोपमालङ्कारः। 'वर्ण्योपमानधर्माणामुपभामावाचकस्य च । एकद्वित्र्यनुपादानात् भिन्ना लुप्तोपमाऽष्टधा ॥' इति लक्षणात् । अथ ययाविति पदन्यासक्रमं वर्णयति ॥ दिव्यैरिति ॥ विनयः नतिः शिक्षा वा तेन सहिताः सविनयाः तैः । 'विनयो नतिशिक्षादिधर्माचारप्रशान्तिषु’ इति नानार्थमाला । अत एव दिव्यैः श्लाघ्यैः । "'दिव्यो दिविचरे श्लाघ्ये' इति विश्वः । पञ्चभिः पञ्चसङ्ख्याकैः आयुधैः गदाशार्ङ्गसुदर्शनादिप्रहरणैः । 'आयुधं तु प्रहरणम्' इत्यमरः । आबद्धः आसन्दानितः । विरचित इति यावत् । सेवाक्रमः शुश्रूषा परिपाटी यस्मै सः । 'शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः' इति नानार्थमाला । मूर्तिमद्भिः शङ्खादिभिस्सेवित इति भावः । तत्कालः तत्क्षणः, तस्मिन्नुपनताः प्राप्ताः, तैः अत एव कैरपि न ज्ञातैः धन्यैः सुकृतिभिः । 'सुकृती पुण्यवान् धन्यः' इत्यमरः । तपोधनानां मुनीनां गणाः समुदायाः । 'समुदायस्समुदयः समवायश्च यो गणः' इत्यमरः । तैः परिवृतः आवृतः, विश्वम्भरः श्रीहरिः । 'विश्वम्भरः कैटभजित्' इत्यमरः । तदा तत्काले, अभ्यर्णे समीपे । 'उपकण्ठान्तिकाऽभ्यर्ण’ इत्यमरः । वसतः वर्तमानस्य खगपतेः खगेश्वरस्य । 'वैनतेयः खगेश्वरः' इत्यमरः । हस्तं करतलम्, आलम्ब्य आश्रित्य, विष्वक्सेनः
पारिषदोत्तमः । 'यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्' इत्यादिस्मृतेः । तेन निवेद्यमाना विनिवेदिता सरणिः पद्धतिर्यस्य स तथा भूतस्सन् । सरणिः पद्धतिः पद्या' इत्यमरः । निर्ययौ निर्जगामेत्यर्थः । यथा लौकिको राजा स्वसमीपवर्तिप्रेमपात्रपरिजनस्य हस्ते स्वस्यान्यतरहस्तं निक्षिप्य
 
[^१] वाहनस्याभ्यर्णे वासमधुनापि देवालये ईश्वरास्याग्रे वृषभदर्शनेन, नारायणाग्रे गरुडदर्शनेन, विनायकाग्रे मूषिकदर्शनेन, सेनान्यग्रे मयूरदर्शनेन, देव्यग्रे सिंहदर्शनेन च स्फुटमवगच्छमः ॥