This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
दिव्यैः पञ्चभिरायुधैस्सविनयैराबद्धसेवाक्रमः
-

तत्कालोपनतैस्तपोधनगणैर्धन्यैर्वृतः कैरपि ।

[^१]
अभ्यर्णे वसतस्तदा खगपतेरालम्ब्य हस्तं शनैः

विष्वक्सेन निवेद्यमानसरणिर्विश्वम्भरो निर्ययौ ॥ ४८ ॥
 
'
 

 

 
[commentary]
 
सादृश्यवाचकानामीशकालमेघेवशब्दानां त्रयाणां उपादानेऽपि साधारणधर्मवाचक-
पदानुपादानाल्लुप्तोपमालङ्कारः। 'वर्ण्योपमानधर्माणामुपभावाचकस्य च । एकद्वित्र्यनु-
पादानात् भिन्ना लुप्तोपमाऽष्टघाधा ॥' इति लक्षणात् । अथ ययाविति पदन्यासक्रमं
वर्णयति ॥ दिव्यैरिति ॥ विनयः नतिः शिक्षा वा तेन सहिताः सविनयाः तैः ।
'विनयो नतिशिक्षादिधर्माचारप्रशान्तिषु? इति नानार्थमाला । अत एव दिव्यैः
(
श्लाघ्यैः । "दिव्यो दिविचरे श्लाघ्ये' इति विश्वः । पञ्चभिः पञ्चसङ्ख्य इयाकैः
आयुधैः गदाशार्ङ्गसुदर्शनादिप्रहरणैः । 'आयुधं तु प्रहरणम्' इत्यमरः ।
आबद्धः आसन्दानितः । विरचित इति यावत् । सेवाक्रमः शुश्रूषा परिपाटी
यस्मै सः । 'शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः' इति नानार्थमाला ।
मूर्तिमद्भिः शङ्खादिभिस्सेवित इति भावः । तत्कालः तत्क्षणः, तस्मिन्नुपनता:
:
ताः प्राप्ताः, तैः अत एव कैरपि न ज्ञातैः धन्यैः सुकृतिभिः । 'सुकृती पुण्यवान्
(
धन्यः' इत्यमरः । तपोधनानां मुनीनां गणा:णाः समुदाया:याः । 'समुदायस्समुदयः
समवायश्च यो गणः? इत्यमरः । तैः परिवृतः आवृतः, विश्वम्भरः श्रीहरिः ।
विश्वम्भरः कैटभजित् ' इत्यमरः । तदा तत्काले, अभ्यर्णे समीपे ।
'उपकण्ठान्तिकाऽभ्यर्ण? इत्यमरः । वसतः वर्तमानस्य खगपतेः खगेश्वरस्य
। 'वैनतेयः खगेश्वरः' इत्यमरः । हस्तं करतलम्, आलम्ब्य आश्रित्य, विष्वक्सेनः
:

पारिषदोत्तमः । 'यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्' इत्यादिस्मृतेः ।
तेन निवेद्यमाना विनिवेदिता सरणिः पद्धतिर्यस्य स तथा भूतस्सन् ।
 
+
 
"
 
३३७
 
.
 
--सरणि:
सरणिः पद्धतिः पद्या' इत्यमरः । निर्ययौ निर्जगामेत्यर्थः । यथा
 
लौकिको राजा स्वसमीपवर्तिप्रेम पात्रपरिजनस्या हस्ते स्वस्यान्यतरहस्तं निक्षिप्य
 
2
 
RAP
 
1.

 
[^१]
वाहनस्याभ्यर्णे वासमधुनापि देवालये ईश्वरास्याग्रे वृषभदर्शनेन, नारायणाप्ग्रे
गरुडदर्शनेन, विनायकांकाग्रे मूषिकदर्शनेन, सेनान्यमेग्रे मयूरदर्शनेन, देव्यमेग्रे सिंहदर्शनेन च
स्फुटमवगच्छमिःमः