2023-06-05 16:40:23 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
दिव्यैः पञ्चभिरायुधैस्सविनयैराब इसेवाक्रमः
- तत्कालोपनतैस्तपोधनगणैर्धन्यैर्वृतः कैरपि ।
अभ्यर्णे वसतस्तदा खगपतेरालम्ब्य हस्तं शनैः
विष्वक्सेन निवेद्यमानसरणिर्विश्वम्भरो निर्ययौ ॥ ४८ ॥
'
★
सादृश्यवाचकानामीशकालमेघेवशब्दानां त्रयाणां उपादानेऽपि साधारणधर्मवाचक-
पदानुपादानाल्लुप्तोपमालङ्कारः। 'वर्ण्योपमानधर्माणामुपभावाचकस्य च । एकद्वित्र्यनु-
पादानात् भिन्ना लुप्तोपमाऽष्टघा ॥' इति लक्षणात् । अथ ययाविति पदन्यासक्रमं
वर्णयति ॥ दिव्यैरिति ॥ विनयः नतिः शिक्षा वा तेन सहिताः सविनयाः तैः ।
'विनयो नतिशिक्षादिधर्माचारप्रशान्तिषु? इति नानार्थमाला । अत एव दिव्यैः
(श्लाघ्यैः । "दिव्यो दिविचरे श्लाघ्ये' इति विश्वः । पञ्चभिः पञ्चसङ्ख्य इयाकैः
आयुधैः गदाशार्ङ्गसुदर्शनादिप्रहरणैः । 'आयुधं तु प्रहरणम्' इत्यमरः ।
आबद्धः आसन्दानितः । विरचित इति यावत् । सेवाक्रमः शुश्रूषा परिपाटी
यस्मै सः । 'शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः' इति नानार्थमाला ।
मूर्तिमद्भिः शङ्खादिभिस्सेवित इति भावः । तत्काल तत्क्षणः तस्मिन्नुपनता:
:प्राप्ताः, तैः अत एव कैरपि न ज्ञातैः धन्यैः सुकृतिभिः । 'सुकृती पुण्यवान्
(धन्यः' इत्यमरः । तपोधनानां मुनीनां गणा: समुदाया: । 'समुदायस्समुदयः
समवायश्च यो गणः? इत्यमरः । तैः परिवृतः आवृतः, विश्वम्भरः श्रीहरिः ।
विश्वम्भरः कैटभजित् ' इत्यमरः । तदा तत्काले अभ्यर्णे समीपे ।
उपकण्ठान्तिकाऽभ्यर्ण? इत्यमरः । वसतः वर्तमानस्य खगपतेः खगेश्वरस्य ।
। 'वैनतेयः खगेश्वरः' इत्यमरः । हस्तं करतलम्, आलम्ब्य आश्रित्य, विष्वक्सेनः
: पारिषदोत्तमः । 'यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम्' इत्यादिस्मृतेः ।
तेन निवेद्यमाना विनिवेदिता सरणिः पद्धतिर्यस्य स तथा भूतस्सन् ।
+
"
३३७
.
--सरणि: पद्धतिः पद्या' इत्यमरः । निर्ययौ निर्जगामेत्यर्थः । यथा
। लौकिको राजा स्वसमीपवर्तिप्रेम पात्रपरिजनस्या हस्ते स्वस्यान्यतरहस्तं निक्षिप्य
2
RAP
1. वाहनस्याभ्य वासमधुनापि देवालये ईश्वरास्याग्रे वृषभदर्शनेन, नारायणाप्रे
गरुडदर्शनेन, विनायकांग्रे मूषिकदर्शनेन सेनान्यमे मयूरदर्शनेन, देव्यमे सिंहदर्शनेन च
स्फुटमवगच्छमिः ॥