This page has been fully proofread twice.

अवधारयन्ननुपदमेव तस्य सिन्धौ निपातनम्, विज्ञापयामास विनयेन विदितवेदितव्यमपि स्वधर्म[^१] इति विश्वम्भरम् ।
 
व्यत्यस्तकौस्तुभमवप्लुतवैजयन्ति
विस्रंसमानकनकाम्बरलोभनीयम् ।
सद्यः फणीन्द्रशयनादुदतिष्ठदीशः
कैलासशैलशिखरादिव कालमेघः ॥ ४७ ॥
 
[commentary]
 
मन्दरम्, अवलोकयन् । अनुपदमुत्तरद्वितीयतृतीयक्षण एव तस्याद्रेः सिन्धौ समुद्रे पतनमप्यवधारयन्निश्चिन्वन्नित्यर्थः । विदितं विज्ञातं वेदितव्यं ज्ञेयांशः येन स तथाभूतम् । सर्वज्ञत्वात्तस्येति भावः । विश्वम्भरं नारायणम् । 'विश्वम्भरः कैटभजित्' इत्यमरः । स्वस्य धर्मः कर्तव्यांश इत्यर्थः । इति हेतोर्विज्ञापयामास निवेदयामासेत्यर्थः । स्वस्य तत्सेवकत्वाद्विज्ञाप्यं विज्ञापनीयमेवेति भावः । अथ भगवान्सुप्तोत्थित इति कथयन् तदुत्थानचातुरीमपि वर्णयन्नाह ॥ व्यत्यस्तेति ॥ ईशः स्वामी हरिः कैलासशैलो रजताद्रिः तस्य शिखरात् । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । कालः नीलः । 'कालश्यामलमेचकाः' इत्यमरः । स चासौ यो मेघः अम्बुदः स इव फणिनामुरगाणां इन्द्रः अधिपतिश्शेषः स एव शयने तल्पं तस्मादित्यर्थः । सद्यः विष्वक्सेनविज्ञापनासमकालमेव व्यत्यस्तः विपर्यासं प्राप्तः कौस्तुभः तन्नाममणिः यस्मिन् कर्मणि तत्तथा । द्वितीयान्तत्रयं क्रियाविशेषणम् । दक्षिणपार्श्वमधःकृत्य सुप्तस्य उत्तानशयनं प्राप्तस्य वा भगवतः वामपार्श्वमधःकृत्य, उत्थानदशायां अधरोत्तरीभवनलक्षणः स्थिरतरळीभावलक्षणो वा कौस्तुभमणे विपर्यास इति भावः । अवप्लुता अवगळिता वैजयन्ती वनमाला यस्मिन् कर्मणि तत्तथा । 'आपादपद्मं या माला वनमालेति सा मता । वैजयन्तीति च प्रोक्ता' इति कळिङ्गः । सुप्तस्य झडिति हठात् उत्थाने धृतहाराणामवप्लुतिच्छेदादेः संभवादिति भावः । विस्रंसमानं प्रभ्रश्यन् यत्कनकाम्बरं सुवर्णमयचेलं तेन लोभनीयं स्पृहणीयं यथा तथा तदानीं यत्किञ्चिदपि उत्तरीयस्रंसे उरःस्थितसौन्दर्यलक्ष्म्यादिदर्शनसंभवात् स्पृहणीयत्वमिति भावः । उदतिष्ठत् उत्तस्थौ । अत्रोपमेयोपमान-
 
[^१] स्वधर्मानुष्ठानं सर्वदा सर्वत्र न हातव्यमिति दर्शयति । "स्वधर्मे निधनं श्रेयः" इति गीतोपदेशश्च ॥