This page has not been fully proofread.

नीलकण्ठविजये संव्याख्याने
अवधारयन्ननुपदमेव तस्य सिन्धौ निपातनम्, विज्ञापयामास विनयेन
विदितवेदितव्यमपि स्वधर्मंम[^१] इति विश्वम्भरम् ।

व्यत्यस्तकौस्तुभमवप्लुतवैजयन्ति.

विस्रंसमानकनकाम्बरलोभनीयम् ।

सद्यः फणीन्द्रशयनादुदतिष्ठदीशः

कैलासशैलशिखरा दिव कालमेघः ॥ ४७ ॥
 

 
X
 

 
मन्दरम्, अवलोकयन् । अनुपदमुत्तरद्वितीयतृतीयक्षण एव तस्याद्रेः सिन्धौ समुद्रे

पतनमप्यवधारयन्निश्चिन्वन्नित्यर्थ: । विदित विज्ञात वेदितव्यं ज्ञेयांशः येन स

तथाभूत । सर्वज्ञत्वात्तस्येति भावः । विश्वम्भरं नारायणम् । 'विश्वम्भरः कैटभजित् '

इत्यमरः। स्वस्य धर्मः कर्तव्यांश इत्यर्थः । इति हेतोर्विज्ञापयामास निवेदयामा-

सेत्यर्थः । स्वस्य तत्सेवकत्वाद्विज्ञाप्यं विज्ञापनीयमेवेति भावः । अथ भगवान्

सुप्तोत्थित इति कथयन् तदुत्थानचातुरीमपि वर्णयन्नाह ॥ व्यत्यस्तेति ॥ ईशः

स्वामी हरिः कैलासशैलो रजताद्रिः तस्य शिखरात् । 'कूटोऽस्त्री शिखरं शृङ्गम् '

इत्यमरः । काल: नीलः । 'कालश्यामलमेचकाः' इत्यमरः । स चासौ यो

मेघ: अम्बुदः स इव फणिनामुरगाणां इन्द्रः अधिपतिश्शेषः स एव शयने

तल्य तस्मादित्यर्थः । सद्यः विष्वक्सेनविज्ञापनासमकालमेव व्यत्यस्तः विपर्यासं

प्राप्तः कौस्तुभ: तन्नाममणिः यस्मिन् कर्मणि तत्तथा । द्वितीयान्तत्रयं क्रियाविशेषणम् ।

दक्षिणपाश्चमघः कृत्य 'सुप्तस्य उत्तानशयनं प्राप्तस्य वा भगवतः वामपार्श्वमधः-

कृत्य, उत्थानदशायां अधरोंत्तरीभवनलक्षणः स्थिरतरळीभावलक्षणो वा कौस्तुभमणे-

विपर्यास इति भावः । अवप्लुता अवगळिता वैजयन्ती वनमाला यस्मिन् कर्मणि

तत्तथा । 'आपादपद्म या माला वनमालेति सा मता । वैजयन्तीति च प्रोक्ता'

"इति कळिङ्गः । सुप्तस्य झडिति हठात् उत्थाने घृतहाराणामवप्लुतिच्छेदादेः संभ-

वादिति भावः । विस्रंसमानं प्रभ्रश्यन् यत्कनकाम्बरं सुवर्णमयचेलं तेन लोभनीय

स्पृहणीयं यथा तथा तदानीं यत्किञ्चिदपि उत्तरीयांसे उरः स्थित सौन्दर्यलक्ष्म्यादि-

-दर्शनसंभवात् - स्पृहणीयत्व मिति भावः । उदतिष्ठत् उत्तस्थौ । अत्रोपमेयोपमान-

1
 

 

 

 
3
 

 

 

 
1.

स्वधर्मानुष्ठानं सर्वदा सर्वत्र न हातव्यमिति दर्शयति । "स्वधर्मे निधनं श्रेयः"

इति गीतोपदेशश्च ॥