This page has been fully proofread twice.

इति, भिवतु भवतु कथंयन्तोऽपि दृढमितोऽपि कबळितास्सरिद्भिस्सागरैश्च महत्स्वायतनेषु महीगतेषु शार्ङ्गपाणेः कति न भवद्विधाः परमभागवता:ताः, तदास्यतामिहैव भवद्भिः, आधुनिकास्तु वयमज्ञातपारावारा गोपायन्तः क्वचिदात्मानं गोविन्दमेव निरन्तरमनुसन्दधीमहि' इति च विप्रवदतां [^१]विविधान् वादान्, पश्यतामसकृदुन्नम्योन्नम्य, परिपृच्छतामागच्छतो वैमानिकान्, परिभ्रमतामभितोऽपि कोलाहलेन महता, पारिषदानामग्रणीः कुपितो विष्वक्सेनो बहिर्निर्गत्य परितोऽपि चक्षुः प्रसारयन्नवलोकयन्नानीयमानमभ्यर्ण एव मन्दरम्,
 
[commentary]
 
विधः एकः पक्षः । अपरेषां तदसहमानानां पक्षस्तु भवतु भवतु तिष्ठतु तिष्ठत्वित्यर्थः । पूर्ववद्विर्भावः । दृढमत्यन्तं गाढम् । 'गाढबाढदृढानि च' इत्यमरः । कथयन्तो वदन्तः, भवद्विधाः भवत्सदृशाः मही भूमिः तां गतानि प्राप्तानि तथाभूतेषु महत्सु उत्कृष्टेषु शार्ङ्गपाणेः नारायणस्यायतनेषु जगन्नाथप्रभृतिस्थानेषु कति कियन्तः परमभागवताः, सागरैः समुद्रैः सरिद्भिः नदीभिश्च न कबळिताः न ग्रसिता इत्यर्थः । तत्तस्मात्, भवद्भिः युष्माभिरेव इहात्र देशे आस्यतां भूयतामित्यर्थः । भावे लोट् । अज्ञातः अविदितः पारावारः समुद्रः यैस्ते तथाभूतान् । 'अकूपारः पासवारस्सरित्पतिः' इत्यमरः । वयं क्वचित्कुत्रचित् यत्रकुत्रचेति भावः । आत्मानं शरीरम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । गोपायन्तस्संरक्षमाणास्सन्तः । निरन्तरं सर्वदेत्यर्थः । गोविन्दं वासुदेवमेवानुसन्दधीमहि ध्यायेम । इत्येवं बहुविधान् बहुप्रकारान् वादान् वचांसि प्रवदतां वक्तॄणामित्यर्थः । असकृन्मुहुर्मुहुः उन्नम्योन्नम्य उत्थायोत्थायेत्यर्थः । पश्यतां द्रष्टॄणां आगच्छतः आगतान् वैमानिकान् विमानसञ्चारिणः एतान् परिपृच्छतां प्रश्नं कुर्वताम्, अभितः सर्वतः परिभ्रमतां विघूर्णमानानामित्यर्थः । श्वेतद्वीपवासिनामिति शेषः । महता अधिकेन, कोलाहलेन कलकलध्वनिना पारिषदानां विष्णुपारिषदानां अग्रणीः श्रेष्ठः विष्वक्सेनः । विष्वक्सेनो नाम कश्चन पारिषदः । अयं एष कोलाहलः कुतः कस्मात्कारणाद्भवेदिति शेषः । इति मत्वा आलोच्य बहिर्बाह्यदेशं प्रति, निर्गत्य गत्वा परितः सर्वतोऽपि चक्षुः प्रसारयन् दृष्टिं प्रचालयन्निति । प्रपातयन्निति वाऽर्थः । अभ्यर्ण एव समीपदेश एव आनीयमानं
 
[^१] व्याख्यायाम् 'बहुविधान्' इति पाठः ।