2023-06-05 16:40:23 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
17
इति, भिवतु भवतु कथंयन्तोऽपि दृढमितोऽपि कबळितास्सरिद्भिस्साग-
रैश्च महत्स्वायतनेषु महीगतेषु शार्ङ्गपाणेः कति न भवद्विधाः परम-
भागवता:, तदास्यतामिहैव भवद्भिः, आधुनिकास्तु वयमज्ञातपारा-
वारा गोपायन्तः क्वचिदात्मानं गोविन्दमेव निरन्तरमनुसन्दधीमहि'
इति च विप्रवदतां 'विविधान् वादान्, पश्यतामसकृदुन्नम्योन्नम्य,
परिपृच्छतामागच्छतो वैमानिकान्, परिभ्रमता मभितोऽपि कोलाहलेन
पारिषदानामग्रणीः कुपितो विष्वक्सेनो बहिर्निर्गत्य
परितोऽपि चक्षुः प्रसारयन्नवलोकयन्नानीयमानमभ्यर्ण एव मन्दरम्,
महता,
८
विधः एकः पक्ष: । अपरेषां तदसहमानानां पक्षस्तु भवतु भवतु तिष्ठतु तिष्ठ-
वित्यर्थः । पूर्ववद्विर्भाव: । दृढमत्यन्तं गाढम् । 'गाढबाढहढानि च ' इत्यमरः ।
कथयन्तों वदन्तः, भवद्विधाः भवत्सदृशाः मही भूमिः तां गतानि प्राप्तानि तथा-
भूतेषु महत्सु उत्कृष्टेषु शार्ङ्गपाणे: नारायणस्यायतनेषु जगन्नाथप्रभृतिस्थानेषु कति
कियन्तः परमभागवताः, सागरैः समुद्रैः सरिद्भिः नदीभिश्च न कबळिताः न ग्रसिता
इत्यर्थः । तत्तस्मात् भवद्भिः युष्माभिरेव इहात्र देशे आस्यतां भूयतामित्यर्थः ।
भावे लोट्। अज्ञातः अविदित: पारावार: समुद्रः यैस्ते तथाभूतान्। 'अकूपारः
पासवारस्सरित्पतिः' इत्यमरः । वयं कचित्कुत्रचित् यत्रकुत्रचेति भावः ।
आत्मानं शरीरम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ण्य च' इत्यमरः ।
गोषायन्तस्संरक्षमाणास्सन्तः । निरन्तरं सर्वदेत्यर्थः । गोविन्दं वासुदेवमेवानुसन्द -
धीमहि ध्यायेम । इत्येवं बहुविधान् बहुप्रकारान् वादान् वचांसि प्रवदतां
वक्तृणामित्यर्थः । असकृन्मुहुर्मुहुः उन्नम्योन्नम्य उत्थायोत्थायेत्यर्थः । पश्यतां
द्रष्टॄणां आगच्छतः आगतान् वैमानिकान् विमानसञ्चारिणः एतान् परिपृच्छतां
प्रश्न कुर्वताम्, अभितः सर्वतः परिभ्रमतां विघूर्णमानानामित्यर्थः । श्वेतद्वीपवासिना-
मिति शेषः । महता अधिकेन, कोलाहलेन कलकलध्वनिना पारिषदानां विष्णुपा-
रिषदानां अग्रणीः श्रेष्ठः विष्वक्सेनः । विष्वक्सेनो नाम कश्चन पारिषदः । अयं
एष कोलाहलः कुतः कस्मात्कारणाद्भवेदिति शेषः । इति मत्वा आलोच्य
बहिर्बादेश प्रति, निर्गत्य गत्वा परितः सर्वतोऽपि चक्षुः प्रसारयन् दृष्टिं
प्रचालयन्निति । प्रपातयन्निति वाऽर्थः । अभ्यर्ण एव समीपदेश एव आनीयमानं
१
1. व्याख्यायाम् ' बहुविधान् ' इति पाठः ।
..