2023-09-15 09:28:12 by Bharadwajraki
This page has been fully proofread twice.
हि सेवकानामपहाय भगवन्तमन्यत्र गन्तुम्' इति, 'किमुच्यते भगवन्तमपहायेति, किं न विचारितं भवता, भगवानेव मन्दरपातदर्शनकुतूहलव्याजेन प्रस्थातुकामो वर्तत इति कतिवारानेष पपात
मन्दरः, कतिवारान्नोदजृम्भेत सागरः, कस्यापि ब्रह्मणः कल्पे न जानीमो वयं विप्रवासम्, अहो खल्वमीभिराधुनिकैर्बाध्यामहे भागवतैः'
[commentary]
आह । एतत्पूर्वोक्तमन्यत्र गन्तव्यमित्याकारकमित्यर्थः । आलोचितं आलोचनम् 'नपुंसके भावे क्तः' (३.३.११४) । अनुचितम् अयोग्यमित्यर्थः । असमञ्जसमिति वा । 'उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसम्' इति नानार्थमाला । हि यस्माकारणात् सेवकानां अस्माकं भगवन्तं स्वामिनम्, अपहाय त्यक्त्वा अन्यत्र गन्तुं गमनं कर्तुं अयुक्तमसमञ्जसमित्येकोऽभिप्रायः । भगवान् वासुदेव एव मन्दरस्य अद्रेः पातः पतनं तस्य दर्शनं निरीक्षणं तस्मिन् कौतूहलं कौतुकम् । 'कौतूहलं कौतुकं च' इत्यमरः । तदेव व्याजः अपदेशः । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । तेन प्रस्थातुं प्रयातुं कामोऽभिलाषो यस्य सः तथाभूतो वर्तत इति भवद्भिर्न विचारितं किमित्येवमाकारक एकः । अत्रापि किंशब्दः पूर्ववत्प्रश्नार्थकः । तदसहमानानामपरेषां विवादक्रमः कथमिति चेदत आह । एष आनीयमानो मन्दरः कति वारान् कतिषु समयेष्वित्यर्थः । 'निवहावसरौ वारौ' इत्यमरः । 'वारस्सूर्यादिदिवसे बृन्दावसरयोरपि' इति नानार्थमाला च । न पपात पतनं न चकारेत्यर्थः । सागरः समुद्रः कतिवारान् कतिषु अवसरेष्वित्यर्थः । नोदजृम्भत नावर्धतेत्यर्थः । प्रतिपूर्णिमं प्रतिकल्पं वर्धते तस्य तत्स्वभावत्वादिति भावः । [^१]कस्य ब्रह्मणः कल्पे । अत्रेदं बोध्यम् -- एकं दैवयुगसहस्रं मानवानामेकः कल्पः । दैवे द्वे चेद्युगसहस्रे तदा मानवानां द्वौ कल्पौ भवतः । तच्च कल्पद्वयं ब्रह्मणः अहोरात्रमात्रमेव । तत्रैकः कल्पः तस्य दिवसः एकः कल्पस्तस्य रात्रिरिति । अत्रार्थे प्रमाणम् -- 'दिव्यैर्वर्षसहस्रैर्द्वादशभिर्देवतं युगम् । दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्' इत्यमरादिकमिति बोध्यम् । वयं विप्रवासं परस्थलवासं न विजानीमः न विद्मः तत्र तत्र कालेऽस्माकमत्रैवावस्थानादिति भावः । अमीभिरेतैः आधुनिकैः अद्यतनैः भागवतैः भगवद्भक्तैः बाध्यामहे बाधिताः क्रियामहे । अहो खलु आश्चर्यं खल्वित्यर्थः । 'यद्वा यथा तथाचैवं साम्येऽहो हि च विस्मये' इत्यमरः । इत्येवं-
[^१] 'कस्यापि ब्रह्मणः' इति मूलपाठः ।