This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
हि सेवकानामपहाय भगवन्तमन्यत्र गन्तुम्' इति, 'किमुच्यते
भगवन्तमपहायेति, किं न विचारितं भवता, भगवानेव मन्दरपात -
दर्शनकुतूहलव्याजेन प्रस्थातुकामो वर्तत इति कतिवारानेष पपात

मन्दरः, कतिवारान्नोदजृम्भेत सागरः, कस्यापि ब्रह्मणः कल्पे न
जानीमो वयं विप्रवासम्, अहो खल्वमीभिराधुनिकैर्बाध्यामहे भागवतैः'
 

 
[commentary]
 
आह । एतत्पूर्वोक्तमन्यत्रे गन्तव्यमित्या कारक मित्यर्थः । आलोचितं आलोचनम्
'नपुंसके भावे क्त: तः' (3-3-114३.३.११४)1 अनुचितम् अयोग्यमित्यर्थः । असमञ्जसमिति वा ।
'उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसम्' इति नानार्थमाला । हि यस्मा-
कारणात् सेवकानां अस्माकं भगवन्तं स्वामिनम्, अपहाय त्यक्त्वा अन्यत्र गन्तुं
गमनं कर्तुं अयुक्तमसमञ्जसमित्येकोऽभिप्रायः । भगवान् वासुदेव एव मन्दरस्य अद्रेः
पात:तः पतनं तस्य दर्शनं निरीक्षणं तस्मिन् कौतूहलं कौतुकम् । 'कौतूहलं कौतुकं
च' इत्यमरः । तदेव व्याज:जः अपदेशः । 'व्याजोऽपदेशो लक्ष्यं च ' इत्यमरः ।
तेन प्रस्थातुं प्रयातुं कामोऽभिलाषो यस्य सः तथाभूतो वर्तत इति भवद्भिर्न
विचारितं किमित्येवमाकारक एकः । अत्रापि किंशब्दः पूर्ववत्प्रश्नार्थकः । तदसह-
मानानामपरेषां विवादक्रमः कथमिति चेदत आह । एष आनीयमानो मन्दरः
क़
ति वारान् कतिषु समयेष्वित्यर्थ:थः । 'निवहावसरौं वारौ वारौ' इत्यमरः । 'वारस्सूर्या-
दिदिवसे बृन्दावसरयोरपि' इति नानार्थमाला च । न पपात पतनं न चकारे-
त्यर्थः । सागरः समुद्रः कतिवारान् कतिषु अवसरेण्ष्वित्यर्थः । नोदजृम्भत नावर्धते-
त्यर्थः । प्रतिपूर्णिमं प्रतिकल्पं वर्धते तस्य तत्स्वभावत्वादिति भावः । '[^१]कस्य ब्रह्मण:
णः कल्पे । अत्रेदं बोध्यम् -- एकं दैवयुगसहस्रं मानवानामेकः कल्प:पः । दैवे द्वे चेद्युग-
सहसेस्रे तदा मानवानां द्वौ कल्पौ भवतः । तच्च कल्पद्वयं ब्रह्मण:णः अहोरात्रमात्र -
मेव । तत्रैकः कल्पः तस्य दिवसः एकः कल्पस्तस्य रात्रिरिति । अत्रार्थे प्रमाणम् -
- 'दिव्यैर्वर्ष सहस्रैर्द्वादशभिर्देवतं युगम् । दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु· तौ नृणाम् '
' इत्यमरादिकमिति बोध्यम् । वयं विप्रवासं परस्थलवासं न विजानीमः न विद्मः
तत्र तत्र कालेऽस्माकम त्रैवावस्थानादिति भावः । अमीभिरेतैः आधुनिकै:कैः अद्यतनैः
भागवतैः भगवद्भक्तैः बाध्यामहे बाधिता:ताः क्रियामहे । अहो खलु आश्चर्
यं खल्विंवित्यर्थः । 'यद्वा यथा तथाचैवं साम्येऽहो हि च विस्मये' इत्यमरः । इत्येवं
 
1302
 
1.
-
 
[^१]
'कस्यापि ब्रह्मणः' इति मूलपाठः ।