This page has been fully proofread twice.

सज्जीभवत समुत्तिष्ठत सर्वतोऽपि वेलामुछ्रयध्वम्' इति, 'हन्त केनेदमुत्प्रेक्षितं बकबन्धकौशलम्, किञ्चिदपि चेदुछ्वसिति सागरः किं करणीयमुच्छ्रितयापि वेलया, तदारोक्ष्यामो वयमद्यैव वैकुण्ठमर्कमण्डलं वा धाम त्रिधाम्नः' इति, 'अनुचितमेतदालोचितम्, अयुक्तं
 
[commentary]
 
करिष्यते नूनं निश्चयः । 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । इदमस्मदावासभूतमन्तरीपं वार्यन्तस्तटदेश इत्यर्थः । 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । निश्शेषं समग्रं परिप्लावयिष्यते उन्मज्जनं करिष्यते तत्तस्मादद्येदानीमेव सज्जीभवत सन्नद्धा भवतेत्यर्थः । समुत्तिष्ठत समुत्थानं कुरुध्वं, सर्वतोऽपि सर्वप्रकारैरपीत्यर्थः । 'इतराभ्योऽपि दृश्यन्ते' (५.३.१४) इति तृतीयायास्तसिः । अथवा पञ्चम्यास्तसिमाश्रित्य सर्वतोऽपि सज्जीभवतेति भिन्नक्रमेणान्वयो बोध्यः । वेलां समुद्रतीरं उच्छ्रयध्वं उद्गम्य भजध्वमित्यर्थः । अत्रेत्यादिशब्दषट्कस्यापि प्रकारार्थकस्यः विविधान्
वादानित्यनेनान्वयः । प्रतिपाद्यमानषट्प्रकारेषु उत्तरोत्तरप्रकारः पूर्वपूर्वप्रकारखण्डनपर इति बोध्यम् । इदं मन्दरानयनसमुद्रमथनादिरूपं बकबन्धनकौशलं कह्वपक्षिग्रहणचातुर्यम् 'क्रुङ्
क्रौञ्चोऽथ बकः कह्वः पुष्कराक्षस्तु सारसः' इत्यमरः । केन वा उत्प्रेक्षितं तर्कितमित्यर्थः । पुरा किल [^१]केनचित्पामरेण बकबन्धनोपायश्चैवं चिन्तितः । आतपे स्थितस्य बकपक्षिणश्शिरसि नवनीतं निक्षिप्तं चेत् तद्रवीभूय नेत्रयोः पतति । ततश्च निमीलिताक्षः पलायितुं न शक्नोति । तदा ग्रहीतुं शक्यो भवतीति । तद्वदिदं मन्दरानयनसमुद्रमथनं नवनीतप्राप्त्यादिकमिति भावः । हन्तेति खेदे । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः । सागरः समुद्रः किञ्चिदपि उच्छ्रवसिति चेदभिवर्धते चेत् यथा स्वल्पमुखबिले जलसम्पूर्णकलशे आकर्पूरं हस्तनिक्षेपे कलशस्थजलं यथोछ्वसिति बहिरपि प्रवहति तथाऽयमपि सागरः उच्छ्वसिति प्रवहति चेदिति भावः । उच्छ्रितया
आश्रितया वेलया समुद्रतीरेणापि किं प्रयोजनम् । उभयत्र सम्यङ्मज्जनस्य समत्वादिति भावः । तत्तस्मात् अद्येदानीमेव त्रिधाम्नः केशवस्य । 'त्रिधामा केशवे वह्नौ हरिमामृत्युयोगयोः' इति नानार्थमाला । धाम स्थानम् । 'संस्त्यायमुटजं धाम' इत्यमरः । वैकुण्ठं वैकुण्ठलोकम् अर्कमण्डलं वा आरोक्ष्यामः आरोहणं करिष्यामः इति इत्थं केषाञ्चिद्विवादप्रकारः । अपरे तं प्रकारमसहमानाः प्राहुः, किमिति चेदत
 
[^१] बकबन्धकौशलमुपवर्णितं व्याख्यात्रा । तद्वदशक्यं निष्फलं चेत्यर्थः ॥