2023-06-05 16:40:23 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२३३
सज्जीभवत समुत्तिष्ठत सर्वतोऽपि वेलामुछ्रयध्वम्' इति, 'हन्त केनेद-
मुत्प्रेक्षित बकबन्धकौशलम्, किञ्चिदपि चेदुछुसिति सागरः किं
करणीयमुच्छ्रितयापि वेलया, तदारोक्ष्यामो वयमद्यैव वैकुण्ठमर्क-
मण्डलं वा धाम त्रिधाम्नः' इति, 'अनुचितमेतदालोचितम्, अयुक्तं
करिष्यते नूनं निश्चयः । 'नूनं तर्केऽर्थनिश्चये' इत्यमरः । इदमस्मदावासभूत-
मन्तरीप वार्यन्तस्तटदेश इत्यर्थ: । 'द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्'
इत्यमरः । निश्शेषं समग्र परिप्लावयिष्यते उन्मज्जनं करिष्यते तत्तस्मादद्येदानीमेव
सज्जीभवत' सन्नद्धा भवतेत्यर्थः । समुत्तिष्ठत समुत्थानं कुरुध्वं, सर्वतोऽपि सर्व-
प्रकारैरपीत्यर्थः । 'इतराभ्योऽपि दृश्यन्ते' ( 5-3-14) इति तृतीयायास्तसिः । अथवा
पञ्चम्यास्तसमाश्रित्य सर्वतोऽपि सज्जीभवतेति भिन्नक्रमेणान्वयो बोध्यः । वेलां
समुद्रतीरं उच्छ्रयध्वं उद्गम्य भजध्वमित्यर्थः । अत्रेत्यादिशब्दषट्कस्यापि प्रकारार्थ-
कस्य: विविधान् वादानित्यनेनान्वयः । प्रतिपाद्यमानषट्प्रकारेषु उत्तरोत्तर प्रकार:
पूर्वपूर्वप्रकारखण्डनपर इति बोध्यम् । इदं मन्दरानयनसमुद्रमथनादिरूपं बकबन्धन-
कौशलं कहपक्षिग्रहणचातुर्यम् 'क्रुङ् क्रौञ्चोऽथ बकः कह्नः पुष्कराक्षस्तु सारसः'
इत्यमरः । केन वा उत्प्रेक्षितं तर्कितमित्यर्थः । पुरा किल केनचित्पामरेण
चकबन्धनोपायश्चैव चिन्तितः । आतपे स्थितस्य बकपक्षिणश्शिरसि नवनीत
निक्षिप्त चेत् तद्रवीभूय नेत्रयोः पतति । ततश्च निमीलिताक्षः पलायितुं न शक्नोति ।
तदा ग्रहीतुं शक्यों भवतीति । तद्वदिदं मन्दरा नयनसमुद्रमथनं नवनीतप्राप्तयादिक-
मिति भावः । हन्तेति खेदे । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः'
इत्यमरः । सागर: समुद्रः किञ्चिदपि उच्छ्रवसिति चेद भिवर्धते चेत् यथा स्वल्प-
मुखबिले जलसम्पूर्णकलशे आकूपरं हस्तनिक्षेपे कलशस्थजलं यथोछ्वसिति बहि-
रपि प्रवहति तथाऽयमपि सोगर: उच्छ्वसिति प्रवहति चेदिति भावः । उच्छ्रितया
आश्रितया वेलया समुद्रतीरेणापि किं प्रयोजनम् । उभयत्र सम्यङ्मज्जनस्य समत्वा-
दिति भावः । तत्तस्मात् अद्येदानीमेव त्रिधाम्नः केशवस्य । 'त्रिधामा केशवे वहौ
हरिमामृत्युयोगयोः' इति नानार्थमाला । घाम स्थानम् । 'संस्त्यायमुटजं धाम'
इत्यमरः । वैकुण्ठं वैकुण्ठलोकम् अर्कमण्डलं वा आरोक्ष्यामः आरोहणं करिष्यामः
इति इत्थं केषाञ्चिद्विवादप्रकार: । अपरे तं प्रकारमसहमानाः प्राहु:, किमिति चेदत
1. बकबन्धकौशलमुपवर्णितं व्याख्यांत्रां । तद्वदशक्यं निष्फलं चेत्यर्थः ॥
N 30