This page has been fully proofread twice.

अन्ये चक्षमिरे न तद्भवति का श्लाघाऽत्र शाखामृगैः
आनीताश्च निपातिता हि जलधौ शैलास्समूला इति ॥ ४६॥
 
इत्थमतिभारभङ्गुरास्सुरासुरा यावदासेदुरन्तिकं दुग्धनिधेस्तावदुद्वेगः श्वेतद्वीपसदामुदजृम्भत ।
 
'पश्यत पश्यत पर्यन्ते, नीयमानं महागिरिम्, पातयिष्यते नूनमत्रायमर्णवे, परिप्लावयिष्यते च स निश्शेषमिदमन्तरीपं, तदद्यैव
 
[commentary]
 
प्रापणे' इति धातोर्भावे ल्युट्प्रत्ययः । कथं अशक्यमित्यर्थः । रावणापेक्षयैते महाशूरा इत्यर्थः । अस्ताविषुः स्तुतिं चक्रुः । अन्ये च । चकारस्त्वर्थे । असज्जनास्तु भगवता भगवत्सहायेनेत्यर्थः । पुरा, शाखामृगैर्वानरैस्समूलाश्शैला आनीता आहृताः जलधौ अम्बुधौ निपातिता हि निपतिताः कृताः खलु । अत्र गिरिनयने श्लाघा स्तुतिः का कियतीत्यर्थः । इत्येतत् श्लाघनं न चक्षमिरे न सेहिरे । 'क्षमूष्
सहने' इति धातोर्लिट् । तदानीमप्यसज्जनाः अवर्तन्तैवेति भावः ॥ इत्थमिति ॥ इत्थम् एवंप्रकारेणातिभारोऽत्यन्तभारः । 'भारो भरे वीवधे च पलानां द्विसहस्रके' इति नानार्थमाला । तेन भङ्गुराः आनताः । 'भञ्जभासमिदो घुरच्' (३.२.१६१) इति भञ्जधातोः घुरच्प्रत्ययः । सुरासुराः दुग्धनिधेः क्षीरसमुद्रस्य अन्तिकं समीपं यावदासेदुः आजग्मुः तावत् श्वेतद्वीपे सीदन्तीति श्वेतद्वीपसदः । 'सत्सूद्विष --' (३.२.६१) इत्यादिना 'षद्लृ' धातोः क्विप्प्रत्ययः । तेषां सुतरामतितरामित्यर्थः । उद्वेगः भीतिः । 'स्यात्पूगफलमुद्वेग उद्योगो भीतिदुर्गम' इति नानार्थमाला । उदजृम्भत प्रादुरभूत् । यावत्तावच्छब्दावत्र अवध्यर्थकौ । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः । अथ श्वेतद्वीपवासिन उपरि पातयिष्यन्ते मन्दरमिति भीतास्सन्तः तत्र स्थातुमन्यत्र गन्तुं ऊर्ध्वमुत्पतितुमपि न शक्नुवन्तस्सन्तः परस्परं बहुधा विवादयामासुः । तं विवादकोलाहलं श्रुत्वा भगवान्वैष्णवपारिषदशिरोमणिः विष्वक्सेनो बहिरागत्य मन्दरानयनं दृष्ट्वा तत्सर्वं भगवते निवेदयामासेत्याशयेनाह ॥ पश्यतेति ॥ पर्यन्ते परिसरदेशे नीयमानमानीयमानं महागिरिं मन्दराद्रिं तत्स्वरूपापरिज्ञानात्तेषां तन्नामनिर्देश इति भावः । पश्यत पश्यत ईक्षध्वमीक्षध्वम् । 'नित्यवीप्सयोः' (८.१.४) इत्याभीक्ष्ण्ये द्विर्भावः । अत्रार्णवेऽस्मिन्नब्धौ अयमद्रिः निपातयिष्यते निपातनं