This page has not been fully proofread.

२३२
 
नीलकण्ठविजये सव्याख्याने
 
अन्ये चक्षमिरे न तद्भवति का श्लाघाऽत्र शाखामृगैः
आनीताश्च निपातिता हि जलधौ शैलास्समूला इति ॥ ४६॥
इत्थमतिभारभङ्गुरास्सुरासुरा यावदासेदुरन्तिकं दुग्धनिधेस्ताव -
दुद्वेग: श्वेतद्वीपसदामुदजृम्भत ।
 
'पश्यत पश्यत पर्यन्ते, नीयमानं महागिरिम्, पातयिष्यते
नूनमत्रायमर्णवे, परिप्लावयिष्यते च स निश्शेष मिदमन्तरीपं, तदद्यैव
 
प्रापणे' इति धातोर्भावे ल्युट्प्रत्ययः । कथं अशक्यमित्यर्थः । रावणापेक्षयैते महाशूरा
इत्यर्थः । अस्ताविषुः स्तुतिं चक्रुः । अन्ये च । चकारस्त्वर्थे । असज्जनास्तु
भगवता भगवत्सहायेनेत्यर्थः । पुरा, शाखामृगैर्वान रैस्समूलारशैला आनीता आहृताः
जलधौ अम्बुधौ निपातिता हि निपतिताः कृताः खलु । अत्र गिरिनयने लाषा
स्तुति का कियतीत्यर्थः । इत्येतत् श्लाघनं न चक्षमिरे न सेहिरे । 'क्षमूष्
सहने' इति घातोलिट् । तदानीमप्यसज्जनाः अवर्तन्तैवेति भावः ॥ इत्थमिति ॥
इत्थम् एवंप्रकारेणातिभारोऽत्यन्तभारः । 'भारो भरे वीवघे च पलानां द्विसहस्रके'
इति नानार्थमाला । तेन भङ्गराः आनताः । 'भञ्जभासमिदो घुरच्' (3-2-161)
इति भजधातो: घुरचप्रत्ययः । सुरासुरा: दुग्धनिषे: क्षीरसमुद्रस्य अन्तिकं
सीपं यावदासेदुः आजग्मुः तावत् श्वेतद्वीपे सीदन्तीति श्वेतद्वीपसदः ।
'सत्सूद्विष - ( 3-2-61) इत्यादिना 'पद्' धातोः किप्प्रत्ययः । तेषां

सुतरामतितरामित्यर्थः । उद्वेग: भीति: । 'स्यात्पूंगफलमुद्वेग उद्योगो भीतिदुर्गम'
इति नानार्थमाला । उदजम्भत प्रादुरभूत् । यावत्तावच्छन्दावत्र अवध्यर्थकौ ।
' यावत्तावच साकल्येऽवधौ मानेऽवधारणे' इत्यमरः । अथ श्वेतद्वीपवासिन उपरि
पातयिष्यन्ते मन्दरमिति भीतास्सन्तः तत्र स्थातुमन्यत्र गन्तुं ऊर्ध्वमुत्पतितुमपि
न शक्नुवन्तस्सन्तः परस्परं बहुधा विवादयामासुः । तं विवादकोलाहलं
श्रुत्वा भगवान् वैष्णवपारिषदशिरोमणिः विष्वक्सेनो बहिरागत्य मन्दरानयन
दृष्टा तत्सर्वं भगवते निवेदयामासेत्याशयेनाह ॥ पश्यतेति ॥ पर्यन्ते परिसरदेशे
नीयमानमानीयमान * महागिरि 'मन्दराद्रि तत्स्वरूपापरिज्ञानातेषां तन्नामनिर्देश
 
f
 
• इति भावः । पश्यत पश्यत ईक्षध्वमीक्षध्वम् । 'नित्यवीप्सयो: ' ( 8-1-4)
इत्याभीक्ष्ण्ये द्विर्भावः । अत्रार्णवेऽस्मिन्नब्ध अयमद्रिः निपातयिष्यते निपातनं