This page has been fully proofread twice.

एतत्पर्वतपक्षतिक्षतिकृतो मूर्खस्य दौष्कर्म्यमि-
त्यायस्ताः पथि पर्यभाषिषत ते सर्वे सुपर्वेश्वरम् ॥ ४५ ॥
 
अपि च
 
भग्नो यस्य [^१]दशाननः प्रचलने किञ्चित्प्रवृत्तः पुरा
शक्यं तस्य गिरेः कथं नयनमित्यस्ताविषुस्साधवः ।
 
[commentary]
 
असौ गिरिर्मन्दरः वाचैव गच्छेति वाङ्मात्रेण नेतुमुद्दिष्टदेशं गमयितुं क्षमोऽर्हः । [^२]पूर्वमेतस्य पक्षसत्त्वादिति भावः । स्कन्धाः अंसाश्च शिरांसि शीर्षाणि च स्कन्धशिरः । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (२.४.२) इत्येकवद्भावः । 'स्कन्धो भुजशिरोरोंऽसोऽस्त्री' 'उत्तमाङ्गं शिरश्शीर्षम्’ इति च अमरः । भग्नं नष्टप्रायं यत्स्कन्धशिरः तस्य धराः तथाभूतैश्च पयोधरादिशब्दवदत्रापि 'धृ' धातोः पचाद्यच् । दिविचरैः देवैः असुरैः अस्माभिः अद्येदानीम् इत्थमेवम्, उह्यते धृतो भवतीति यत्
तदेतद्वहनमित्यर्थः । पर्वतानां मन्दरप्रभृतिनगानां पक्षतयः पक्षमूलानि । 'स्त्री पक्षतिः पक्षमूलम्’ इत्यमरः । तासां क्षतिकृतः नाशं कृतवतः मूर्खस्य बालिशस्य । 'मूर्खवैधेयवालिशाः' इत्यमरः । दुष्कर्मैव दौष्कर्म्यम्, दुश्चेष्टितमित्यर्थः । स्वार्थे ष्यञ् । पूर्वमनेन॒ इन्द्रेण अनभिज्ञेन पर्वतपक्षाणां छेदनादिति भावः । इति इत्थमायस्ताः आयासविशिष्टाः ते देवासुराः पथि मार्गे सुपर्वणां देवानामीश्वरं पतिमिन्द्रम् । 'ईश्वरः पतिरीशिता' इत्यमरः । पर्यभाषिषत निनिन्दुः, उपालम्भयांचक्रुरित्यर्थः । परिपूर्वस्य भाषतेः निन्दार्थत्वमाह अमरः -- 'यस्सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इति ॥ अपि चेति । भग्नेति ॥ साधवः सज्जनाः । 'सभ्यसज्जनसाधवः' इत्यमरः । पुरा पूर्वकल्पे दशाननो रावणः यस्य अद्रेः प्रचलने प्रकम्पने । 'चलनं कम्पनं कम्पम्' इत्यमरः । किञ्चिदीषत् प्रवृत्त उद्युक्तस्सन् भग्नः भङ्गं प्राप्तः तस्य तथाविधस्येति तात्पर्यार्थः । गिरेः पर्वतस्य, नयनं उत्पाट्य उत्तरदेशप्रापणमित्यर्थः । 'णीञ्
 
[^१] दशाननः यस्य चलने भग्नः, तस्यैवाधुना नयनं श्लाघास्पदमिति साधुवादः ॥ अन्ये क्षुद्रशैलाः शाखामृगैरप्यानीताः, काऽत्र श्लाघा इति व्यक्तिभेदान्निन्दा असाधुवादः इति व्यक्तम् ॥
 
[^२] पर्वतानां पूर्वं सपक्षता क्लेशावहाभूत्, अधुना तेषामेव विपक्षता क्लेशावहा जाता इत्यनेन मित्रशत्रुभावः कालभेदेन सुखदुःखावहः इति द्योतितम् ॥