This page has been fully proofread twice.

अपि च । पुनरक्लेशमानीयमाना पत्या सह कात्यायनी रुचिरान् प्रदेशान् पश्यन्ती विविधानि वस्तूनि परिपृच्छन्ती प्रणयिनमभीक्ष्णं प्रसन्नेन चेतसा स्थापयिष्यतोऽपि गिरिमनुजगृहे देवासुराननुजगृहे ।
 
उड्डीय स्वयमुत्पतन् गिरिरसौ वाचैव नेतुं क्षमो
भग्नस्कन्धशिरोधरैर्दिविचरैरित्थं यदद्योह्यते ।
 
[commentary]
 
प्रतिरोधो निरोधः तस्मात् । अत्र पार्श्वभाग एव निलीयमानस्तत्राविदितस्सन्वर्तमानोऽत एव भग्नं कुण्ठीभूतं तेजः दीप्तिर्यस्य स तथाभूतः त्विषाम्पतिस्सूर्योऽपि दिवो अह्नि प्रवर्तितः प्रदीप इव रजकादिधृतस्थूलदीप इव ददृशे दृष्टः । तेजस्व्यपि कः व्यापकमहातेजस्विसन्निधौ भासेत 'प्रबलेन दुर्बलस्य बाध' इति न्यायादिति भावः ॥ अपि चेति ॥ पत्या धवेन शिवेन सह । 'धवः प्रियः पतिर्भर्ता' इत्यमरः । अक्लेशमनायासं यथा तथा आनीयमानाः याप्यमानाः रुचिरान् मनोहरान् देशान्जनपदान् पश्यन्ती वीक्षमाणा अत एव विविधानि बहुविधानि वस्तूनि प्रणयिनं परशिवं अभीक्ष्णं शश्चत् । 'युक्ते द्वे सांप्रतं स्थानेऽमीभीक्ष्णं शश्वदनारतम्' इत्यमरः । परिपृच्छन्ती पृच्छां कुर्वन्ती [^१]दयामयी कृपाप्रचुरेत्यर्थः । कात्यायनी महादेवी उमादेवी अपि च पुनः पुनश्चापीत्यर्थः । प्रसन्नेन प्रसादविशिष्टेन चेतसा अन्तःकरणेन अनुजः हिमवत्सुतः मैनाकः, तस्य गृहे सदनीभूतसमुद्रे गिरिं मन्दरपर्वतम् । पक्षच्छेदिनो महेन्द्राद्बिभ्यतो हिमवत्तनूजमैनाकस्य समुद्र एव स्थितत्वादिति भावः । स्थापयिष्यतो निधास्यतः । णिजन्तात्, तिष्ठतेः 'लृटः सद्वा' (३.३.१४) इति ऌटश्शत्रादेशः । देवासुरान्, विरोधस्य असार्वदिकत्वात् 'येषां च विरोधश्शाश्वतिकः' (२.४.९) इत्येकवद्भावाभावः । अनुजगृहे अनुग्रहं चकारेत्यर्थः । केचित्तु अक्लेशं यथा तथा रुचिरान् स्वावासयोग्यानित्यर्थः । देशान् पत्या सह नीयमाना दयामयी । अपि च पुनः विविधानि भविष्यन्तीति शेषः । वस्तूनि परिपृच्छन्ती कात्यायनी प्रणयिनमतिप्रीतिपात्रमपि गिरिं पश्यन्ती अनुजगृहे स्थापयिष्यतो देवासुरान्प्रसन्नेन चेतसा अभीक्ष्णमसकृत् पत्यासहानुजगृहे शेषं पूर्ववदित्यन्वयं कथयन्ति ॥ उड्डीयेति ॥ ततः अनुग्रहानन्तरं प्राक् प्रथमं, उड्डीय उड्डीनं कृत्वा । 'प्रडीनोड्डीनसण्डीनान्येताः खगगतिक्रियाः' इत्यमरः । उत्पतन् उत्पतनं कुर्वन्, अत एव
 
[^१] 'दयामयी' इति पाठः मूले न दृश्यते ।