This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सव्याख्याने
 
अपि च । पुनरक्लेशमानीयमाताना पत्या सह कात्यायनी
रुचिरान् प्रदेशान् पश्यन्ती विविधानि वस्तूनि परिपृच्छन्ती प्रणयिनम-
भीक्ष्णं प्रसन्नेन चेतसा स्थापयिष्यतोऽपि गिरिमनुजगृहे देवासुराननु -
जगृहे ।
 
S
 

 
उड्डीय स्वयमुत्पतन् गिरिरसौंसौ वाचैव नेतुं क्षमो

भग्नस्कन्ध शिरोधरैर्दि विचरै रित्थं यदद्योद्ह्यते ।
 
0
 

 
[commentary]
 
प्रतिरोधो निरोधः तस्मात् । अत्र पार्श्वभाग एंव निलीयमानस्तत्राविदितस्सन्
वर्तमानोऽत एव भग्नं कुण्ठीभूतं तेजः दीप्तिर्यस्य स तथाभूतः त्विषाम्पतिस्सूर्योऽपि
दिवो अह्नि प्रवर्तितः प्रदीप इव रजकादिधृत स्थूलदीप इव ददृशे दृष्टः । तेजस्व्यपि
कः व्याप कमहातेजस्विसन्निधौ भासेत 'प्रबलेन दुर्बलस्य बा' इति न्यायादिति भावः
॥ अपि चेति ॥ पत्या वेन शिवेन सह [ 'धवः प्रियः पतिर्भर्ता' इत्यमरः ।
अक्लेशमनायासं यथा तथा आंनीयमानाः याप्यमानाः रुचिरान् मनोहरान् देशान्
जनपदान् पश्यन्ती वीक्षमाणा अंत एव विविधानि बहुविधानि वस्तूनि प्रणयिनं पर शिवं
अमी
अभीक्षणष्णं शश्चत् । 'युक्ते द्वे सांप्रतं स्थानेऽमीक्ष्णं शश्वदनारतम्' इत्यमरः । परि-
पृच्छन्ती पृच्छां कुर्वन्ती [^१]दयामयी कृपाप्रचुरेत्यर्थः । कात्यायनी महादेवी उमादेवी
अपिहो च पुनः पुनश्चापीत्यर्थः । प्रसन्नेन प्रसादविशिष्टेन चेतसा अन्तःकरणेन
 
S
 
,
 
अनुजः हिमवत्सुतः सैमैनाकः, तस्य गृहे सदनीभूतसमुद्रे गिरिं मन्दरपर्वतम् ।
पक्षच्छे दिनो महेन्द्रीविराद्बिभ्यतो हिमवत्तनूजमैनाकस्य समुद्र एव स्थितत्वादिति
भावः । स्थापयिष्यतो निघाधास्यतः । णिजन्तांत्तात्, तिष्ठते:तेः 'लट:टः सद्वा' (3-3-14३.३.१४) इति
ऌटश्शत्रादेशः । देवासुरान्, विरोधस्य असार्वदिकत्वात् 'येषां च विरोधश्शाश्व-
तिक:
तिकः' (2-4-9२.४.९) इत्येकवद्भावाभावः । अनुजगृहे अनुग्रहं चकारेत्यर्थ:थः । केचित्तु
अक्लेशं यथा तथा रुचिरान् स्वावासयोग्यां यानित्यर्थः । देशान् पत्या सह नीयमाना
दयामयी । अपि च पुनः विविधानि भविष्यन्तीति शेषः । वस्तूनि परिपृच्छन्ती
कात्यायनी प्रणयिनमतिप्रीतिपात्रमपि गिरिं पश्यन्ती अनुजगृहे स्थापयिष्यतो देवासुरान्
-
प्रसन्नेन चेतसा अभीक्ष्णमसकृत् पत्यासहानुजगृहे शेषं पूर्ववदित्यन्वयं कथयन्ति ॥
उड्डीयेति ॥ ततः अनुग्रहानन्तरं प्राकूक् प्रथमं, उड्डीय उड्डीनं कृत्वा । 'प्रडीनो-
ड्डीनसण्डीनान्येताः खगगतिक्रिया:याः' इत्यमरः । उत्पतन् उत्पतनं कुर्वन्, अत एव
1:

 
[^१]
'दयामयी' इति पाठः मूले न दृश्यते ।
 
2
 
."