This page has been fully proofread twice.

तासु तपस्यन्तस्तपोधनाः कतिचिदतिचकिताः प्रायुञ्जत परमाशिषः, परिपेठुस्स्वस्त्ययनानि, अजपन्नभयङ्करम्, आवर्तयन्नमृतमृत्युञ्जयम्, अनुदध्युः आपदुद्धरणमम्बिकारमणम्, आशशंसिरे च बलातिबलाभ्यामश्रमं दिविचराणाम् ।
 
महाप्रकाशमणिगणाकीर्णस्य तस्य चलतः पथिवशादागत्य पार्श्वतलम् अध्वप्रतिरोधादत्रैव निलीयमानः पतिरपि त्विषां प्रदीप इव दिवा प्रवर्तितो भग्नतेजा ददृशे ।
 
[commentary]
 
अधोदेशवर्तमानासु तासु तासु दिव्यभूमिषु दिव्यस्थानेषु काश्यवन्तीकाञ्च्यादिषु तपस्यन्तः तपांसि कुर्वाणाः, कतिचित्तपोधना तपस्विनः,; अति अधिकं चकिता भीतास्सन्तः । स्वेषामुपर्ययं पर्वतः पतेदिति सम्भावनयेति भावः । परमाः उत्कृष्टाः या आशिषः 'सर्वे जनास्सुखिनो भवन्तु' इत्यादिरूपाः हिताशंसाः ताः प्रायुञ्जत प्रयुयुजिरे । सर्वेषां शुभाशंसायां सर्वान्तःपातित्वात् स्वेषामपि शुभं भवेदेवेति भावः । 'स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रयोः इत्यमरः । स्वस्त्ययनानि नवग्रहमन्त्रान् परिपेठुः पर्यपाठिषुः । ग्रहमखनवग्रहमखनवग्रहजपादिकं चक्रुरिति भावः । अभयङ्करं 'नः पन्था अभयङ्करोऽस्तु' इत्यादिकं मन्त्रं प्राजपन् जपं चक्रुः । 'जप मानसे च' इति धातोर्लङ् । अमृतमृत्युञ्जयं तारामालिनिमन्त्रसम्पुटीकृतत्र्यम्बकमन्त्रमित्यर्थः । आवर्तयन् पुनः पुनः पारायणमकुर्वन् इत्यर्थः । आपद्भ्यः विपद्भ्यः उद्धरतीत्यापदुद्धरणः नन्द्यादि (३.१.१३४) त्वात् ल्युः । 'युवोरनाकौ' (७.१.१) इत्यनादेशः । तथाभूतमम्बिकारमणं उमाकान्तं अनुदध्युः ध्यानं चक्रुः । आपत्काले परमेश्वरमन्तरा कस्त्रातुमीष्ट इति भावः । बला च अतिबला च बलातिबले ताभ्यां तत्संज्ञिकाभ्यां विद्याभ्यामित्यर्थः । दिविचराणां देवासुराणां अश्रमं श्रमाभावं आशशंसिरे आचकाङ्क्षिरे । बलातिबलाविद्याभ्यां प्रसन्नात् परमेश्वराद्दिविचरानश्रमं प्रापयितुं प्रार्थयामासुरिति भावः । 'आङः शासु इच्छायाम्' इति धातोर्लिट् । बलातिबलाविद्यासद्भावे प्रमाणं तु -- 'बलेत्यतिबलेति च' 'विद्येते मयि काकुत्स्थ' इति चम्पूरामायणवचनमिति बोध्यम् ॥ महाप्रकाशेति ॥ महानधिकः प्रकाशः दीप्तिर्येषां ते तथाभूताः ये मणयो रत्नानि तेषां गणः समूहः तेन कीर्णः सर्वतो व्याप्तः तथाभूतस्य चलतः चञ्चलस्य तस्य मन्दराद्रेः पार्श्वतलमेकपक्षभागं पथिवशात् मार्गवशात्, आगत्य, अध्वा मार्गः तस्य