This page has been fully proofread once and needs a second look.

तृतीयाश्वासः
 
तासु तपस्यन्तस्तपोधनाः
 
कतिचिदतिचकिताः प्रायुञ्जत परमाशिषः,
 
परिपेठुस्स्वस्त्ययनानि, अजपन्नभयङ्करम्, आवर्तयन्नमृतमृत्युञ्जयम्,
अनुदद्ध्युः आपदुद्धरणमम्बिकारमणम्, आशशंसिरे च बलातिबला-
भ्यामश्रमं दिविचराणाम् ।
 
9
 
२२९
 

 
महाप्रकाश मणिगणाकीर्णस्य तस्य चलतः पथिवशादागत्य
पार्श्वतलम् अध्वप्रतिरोधादत्रैव निलीयमानः पतिरपि त्विषां प्रदीप
इव दिवा प्रवर्तितो भग्नतेजा ददृशे ।
 

 
[commentary]
 
अधोदेशवर्तमानासु तासु तासु दिव्यभूमिषु दिव्यस्थानेषु काश्यवन्तीकाञ्च्यादिषु
तपस्यन्तः तपांसि कुर्वाणाणाः, कतिचित्तपोधना तपस्विनः;, अति अधिकं चकिता
भीतास्सन्तः । स्वेषामुपर्ययं पर्वतः पतेदिति सम्भावनयेति भावः । परमाः
उत्कृष्टा:टाः या आशिष:षः 'सर्वे जनास्सुखिनो भवन्तु' इत्यादिरूपाः हिताशंसाः ताः
प्र
प्रायुञ्ज प्रयुयुजिरे । सर्वेषां शुभाशंसायां सर्वान्तः पातित्वात् स्वेषामपि शुभं
भवेदेवेति भावः । 'स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रय:योः इत्यमरः । स्वस्त्ययनानि
नवग्रहमन्त्रान् परिपेठुः पर्यपाठिषुः । ग्रहमखनवग्रहमखनवग्रहजपादिकं चक्रु
रिति भाव:वः । अभयङ्करं 'नः पन्था अभयङ्करोऽस्तु' इत्यादिकं मन्त्रं प्राजपन् जपं चक्रुः ।
'जप मानसे च' इति धातोर्लङ् । अमृतमृत्युञ्जयं तारामालिनिमन्त्र-
'
सम्पुटीकृतत्र्यम्बकमन्त्रमित्यर्थः । आवर्तयन् पुनः पुनः पारायणमकुर्वन्
इत्यर्थ:थः । आपद्भ्यः विपद्भ्यः उद्धरतीत्यापदुद्धरण:णः नन्द्यादि (3-1-134३.१.१३४) त्वात्
'
ल्युः । 'युवोरनाकौ' (7-1-1 ७.१.१) इत्यनादेशः । तथाभूतमम्बिकारमणं उमाकान्तं
अनुदध्युः घ्ध्यानं चक्रुः । आपत्काले परमेश्वरमन्तरा कस्त्रातुमीष्ट इति भावः । बला
च अतिबला च बलातिबले ताभ्यां तत्संज्ञिकाभ्यां विद्याभ्यामित्यर्थः । दिविचराणां
देवासुराणां अश्रमं श्रमोमाभावं आशशंसिरे आचकाङ्क्षिरे । बलातिबलाविद्याभ्यां
प्रसन्नात् परमेश्वराद्दिविचरानश्रमं प्रापयितुं प्रार्थयामासुरिति भावः । 'आङ:ङः शासु
'
इच्छायाम्' इति धातोर्लिंलिट् । बलातिबलाविद्यासद्भावे प्रमाणं तु -- 'बलेत्यतिबलेति
च' 'विद्येते मयि काकुत्स्थ' इति चम्पूरामायणवचन मिति बोध्यम् ॥ महाप्रका-
शेति ॥ महानधिकः प्रकाश:शः दीप्तिर्येषां ते तथाभूताः ये मणयो रत्नानि तेषां
ण:णः समूहः तेन कीर्णः सर्वतो व्याप्तः तथाभूतस्य चलतः चञ्चलस्य तस्य
मन्दराद्रेः पार्श्वतलमेकपक्षभागं पथिवशात् मागं पथिर्गवशात् मार्गवशात्, आगत्य, अध्वा मार्गः तस्य
 
"