2023-06-05 16:40:21 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
तासु तपस्यन्तस्तपोधनाः
कतिचिदतिचकिताः प्रायुञ्जत परमाशिषः,
परिपेठुस्स्वस्त्ययनानि, अजपन्नभयङ्करम् आवर्तयन्नमृतमृत्युञ्जयम्,
अनुदद्ध्युः आपदुद्धरणमम्बिकारमणम्, आशशंसिरे च बलातिबला-
भ्यामश्रमं दिविचराणाम् ।
9
२२९
महाप्रकाश मणिगणाकीर्णस्य तस्य चलतः पथिवशादागत्य
पार्श्वतलम् अध्वप्रतिरोधादत्रैव निलीयमानः पतिरपि त्विषां प्रदीप व
दिवा प्रवर्तितो भग्नतेजा ददृशे ।
अधोदेशवर्तमानासु तासु तासु दिव्यभूमिषु दिव्यस्थानेषु काश्यवन्तीकाञ्च्यादिषु
तपस्यन्तः तपांसि कुर्वाणा, कतिचित्तपोधना तपस्विनः; अति अधिकं चकिता
भीतास्सन्तः । स्वेषामुपर्ययं पर्वतः पतेदिति सम्भावनयेति भावः । परमाः
उत्कृष्टा: या आशिष: 'सर्वे जनास्सुखिनो भवन्तु' इत्यादिरूपाः हिताशंसाः ताः
प्रयुञ्ज प्रयुयुजिरे । सर्वेषां शुभाशंसायां सर्वान्तः पातित्वात् स्वेषामपि शुभं
भवेदेवेति भावः । 'स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रय: इत्यमरः । स्वस्त्ययनानि
नवग्रहमन्त्रान् परिपेठुः पर्यपाठिषुः । ग्रहमखनवग्रहमखनवग्रहजपादिकं चक्रु
भाव: । अभयङ्करं 'नः पन्था अभयङ्करोऽस्तु' इत्यादिकं मन्त्र प्राजपन् जपं चक्रुः ।
'जप मानसे च' इति धातोर्लङ् । अमृतमृत्युञ्जयं तारामालिनिमन्त्र-
'सम्पुटीकृतत्र्यम्बकमन्त्रमित्यर्थः । आवर्तयन् पुनः पुनः पारायणमकुर्वन्
इत्यर्थ: । आपच विपद्धयः उद्धरतीत्यापदुद्धरण: नन्द्यादि (3-1-134) त्वात्
'ल्युः। 'युवोरनाकौ' (7-1-1 ) इत्यनादेशः । तथाभूतमम्बिकारमणं उमाकान्तं
अनुदध्युः घ्यानं चक्रुः । आपत्काले परमेश्वरमन्तरा कस्त्रातुमीष्ट इति भावः । बला
च अतिबला च बलातिबले ताभ्यां तत्संज्ञिकाभ्यां विद्याभ्यामित्यर्थः । दिविचराणां
देवासुराणां अश्रमं श्रमोभाव आशशंसिरे आचकाङ्क्षिरे । बलातिबलाविद्याभ्यां
प्रसन्नात् परमेश्वराद्दिविचरानश्रमं प्रापयितुं प्रार्थयामासुरिति भावः । 'आङ: शासु
'इच्छायाम्' इति धातोर्लिंट् । बलातिबलाविद्यासद्भावे प्रमाणं तु – 'बलेत्यतिबलेति
च' 'विद्येते मयि काकुत्स्थ' इति चम्पूरामायणवचन मिति बोध्यम् ॥ महाप्रका-
शेति ॥ महानधिकः प्रकाश: दीप्तिर्येषां ते तथाभूताः ये मणयो रत्नानि तेषां
गण: समूहः तेन कीर्णः सर्वतो व्याप्तः तथाभूतस्य चलतः चञ्चलस्य तस्य
मन्दराद्रेः पार्श्वतलमेकपक्षमागं पथिवशात् मार्गवशात् आगत्य, अध्वा मार्गः तस्य
"