This page has been fully proofread twice.

पन्नगम् अनवसन्नकिन्नरीगानम् अस्तब्धसिद्धचारणकोलाहलम् अविश्रान्तगान्धर्ववादित्रम् अनुपरुद्धतपोधनध्यानम् आनन्दयन्तो भगवन्तमुमाकान्तमवहन्त मन्दरम् ।
 
सच नीयमानस्सर्वैरपि सुरासुरैरखिलभुवनाधारस्य पशुपतेरप्याधारताऽवलेपादिव पादैराचक्राम शिरांसि पर्वतानाम् ।
 
परितः स्फुरदच्छनिर्झरापदेशेन प्रत्यक्षमिव विचकार दिङ्मुखेषु यशांसि निर्मलानि ।
 
आकाश एव नीयमाने तस्मिन्, अधस्तनीषु दिव्यभूमिषु तासु
 
[commentary]
 
कोलाहलः कलकलध्वनिर्यस्मिन् कर्मणि तत्तथा । 'कोलाहलः कलकलः' इत्यमरः । अनवसन्नम् अशान्तं किन्नरीणां गानं यस्मिन् तत्तथा । अविश्रान्तमशान्तं गन्धर्वाणां वादित्रं यस्मिन् कर्मणि तत्तथा ॥ 'चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्' इत्यमरः । अनुपरुद्धम् अनिवारितं, तपोधनानां ऋषीणां ध्यानं परमेश्वरानुसन्धानलक्षणं यस्मिन् कर्मणि तत्तथा । भगवन्तमुमाकान्तं पार्वतीजानिम् आनन्दयन्तस्सन्तोषयन्तः अवहन्त अनयन्तेत्यर्थः ॥ सचेति ॥ सुरासुरैः देवासुरैः, नीयमानः याप्यमानः, स च मन्दरः सकलभुवनानि समस्तलोकाः तेषामाधारस्य आश्रयस्य । 'समस्तजगदाधारश्शम्भुरेव न चेतरः' इति शास्त्रादिति भावः । पशुपतेः शिवस्य । 'शम्भुरीशः पशुपतिः' इत्यमरः । आधारता अधिकरणता तया अवलेपाद्गर्वादिव । 'गर्वोऽवलेपोऽवष्टम्भः' इत्यमरः । पादाः प्रत्यन्तपर्वताः एत एव पादाः चरणाः तैः । श्लिष्टरूपकमेतत् । पर्वतानां स्वातिरिक्ताद्रीणां शिरांसि शिखराण्येव शिरांसीति पूर्ववद्रूपकम् । आचक्राम अतिजगामेत्यर्थः । उपर्येव तैः तस्य वहनादिति भावः ॥ परित इति ॥ स गिरिः परितः सर्वतः स्फुरन्तः प्रकाशमानाः अच्छा निर्मलाः ये निर्झराः गिरिनद्यः तेषामपदेशेन व्याजेन । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । दिशां मुखेषु मुखभागेषु यशांसि कीर्तीः । 'यशः कीर्तिस्समज्ञा च' इत्यमरः । प्रत्यक्षमैन्द्रियकमिव । 'प्रत्यक्षं स्यादैन्द्रियकम्' इत्यमरः । [^१]चकार चक्रे । मन्दरोद्धारयशः प्रत्यक्षं कारयामासेवेति भावः । आकाश एवेति ॥ तस्मिन् मन्दराद्रौ आकाशे आकाशमार्ग एवं नीयमाने [^२]सति याप्यमाने सति अधस्तनीषु
 
[^१] 'विचकार' इति मूलपाठः ।
 
[^२] 'सति' इत्यधिकः पाठः व्याख्यायाम् ।