This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
पनगम् अनवसन्नकिन्नरीगानम् अस्तब्धंसिद्धचारणकोलाहलम् अविश्रान्त-
गान्धर्ववादित्रम् अनुपरुद्धतपोधनंध्यानम् आनन्दयन्तो भगवन्तमुमा-
कान्तमवहन्त मन्दरम् ।
 
सच नीयमानस्सर्वैरपि सुरासुरैरखिलभुवनाधारस्य पशुपतेर-
प्याधारताऽवलेपादिव पादैराचक्राम शिरांसि पर्वतानाम् ।
 
परितः स्फुरदच्छनिर्झरापदेशेन प्रत्यक्षमिव विचकार दिङ्मुखेषु
यशांसि निर्मलानि ।
 
1
 
"
 
आकाश एव नीयमाने तस्मिन्, अधस्तनीषु दिव्यभूमिषु तासु
कोलाहल: कलकलध्वनियस्मिन् कर्मणि तत्तथा । ' कोलाहल: कलकल: '
इत्यमरः । अनवसन्नम् अशान्तं किन्नरीणां गानं यस्मिन् तत्तथा । अविश्रान्तमशान्तं
गन्धर्वाणां वादित्रं यस्मिन् कर्मणि तत्तथा ॥ 'चतुर्विघमिदं वाद्य वादित्रातोद्य-
नामकम्' इत्यमरः । अनुपरुद्धम् अनिवारितं, तपोधनानां ऋषीणां ध्यानं
परमेश्वरानुसन्धानलक्षणं यस्मिन् कर्मणि तत्तथा । भगवन्तमुमाकान्तं पार्वती-
जानिम् आनन्दयन्तस्सन्तोषयन्तः अवहन्त अनयन्तेत्यर्थः ॥ सचेति ॥ सुरासुरैः
देवासुरैः, नीयमानः याप्यमानः स च मन्दरः सकलभुवनानि समस्तलोकाः
तेषामाघारस्य आश्रयस्य । 'समस्तजगदाधारश्शम्भुरेव न चेतरः' इति शास्त्रा-
दिति भावः । पशुपते: शिवस्य । 'शम्भुरीश: पशुपतिः' इत्यमरः । आघारता
अधिकरणता तया अवलेपार्वादिव । 'गर्वोऽवलेपोऽवष्टम्भ:' इत्यमरः ।
पादाः प्रत्यन्तपर्वताः एत एव पादाः चरणाः तैः । श्लिष्टरूपकमेतत् । पर्वतानां
स्वातिरिक्ताद्रीणां शिरांसि शिखराण्येव शिरांसीति पूर्ववद्वपकम् । आचक्राम
अतिजगामेत्यर्थः । उपर्येव तैः तस्य वहनादिति भावः ॥ परित इति ॥ स
गिरिः परितः सर्वतः स्फुरन्त: प्रकाशमाना: अच्छा निर्मला: ये निर्झरा:
गिरिनद्यः तेषामपदेशेन व्याजेन । 'व्याजोऽपदेशो लक्ष्यं च ' इत्यमरः । दिशां
मुखेषु मुखभागेषु यशांसि कीर्ती: । 'यशः कीर्तिस्समज्ञा च' इत्यमरः ।
प्रत्यक्षमैन्द्रियकमिव । 'प्रत्यक्ष स्यादेन्द्रियकम्' इत्यमरः । चकार चक्रे ।
मन्दरोद्धारयशः प्रत्यक्षं कारयामासेवेति भावः । आकाश एवेति ॥ तस्मिन्
मन्दराद्रौ आकाशे आकाशमार्ग एवं नीयमाने सति याप्यमाने सति अघस्तनीषु
 
1. 'विचकार' इति मूलपाठः ।
 
2,
 
6
 
सति' इत्यधिकः पाठः व्याख्यायाम् ।
 
.