This page has been fully proofread twice.

समुद्धृत्य तमारसातलप्रतिष्ठमपि सद्यस्समारोपितं कलममिव लीलया प्रस्थिताः दुग्धार्णवं प्रति देवासुराः ।
 
अशिथिलशिखरम् अग्रकम्पनितम्बम् अखण्डितगण्डोपलम् अनुज्झितनिर्झरप्रवाहम् अस्फुटितपर्यन्तदर्यन्तरम् अभञ्जिततरुपुञ्जम् अनुत्खातलतावितानम् अस्पन्दमृगबृन्दम्
अनुद्भ्रान्तशकुन्तम् अव्यापन्न-
 
[commentary]
 
सौधोत्सेधविटङ्कसङ्घा यस्मिन् तत्तथाभूतम्, अजनि आसीदित्यर्थः ॥ समुद्धृत्येति ॥ आरसायास्तलं पाताळावधि, प्रविष्टं व्याप्य संस्थितमपीत्यर्थः । तं मन्दराद्रिं सद्यः तत्क्षणे समारोपितं निखातं कलभं व्रीह्योषधिसस्यमिव । 'कलभश्शाललेखिन्ये शारे लाक्षारसेऽङ्कुरे' इत्यमरः । लीलया भगवदनुग्रहप्रयुक्तानायासविलासेन समुद्धृत्य उत्पाट्य । धृत्वेत्यर्थः । देवासुराः दुग्धार्णवं क्षीरसमुद्रं प्रति प्रस्थिताः प्रययुः । अथ तद्वहनचातुर्यं वर्णयति ॥ अशिथिलेति ॥ देवासुराः मन्दराद्रिं, इतोऽतिरिक्तं सर्वं द्वितीयान्तं क्रियाविशेषणमिति बोध्यम् । अशिथिलान्यविगळनानि शिखराणि शृङ्गाणि यस्मिन् कर्मणि तत्तथा । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । अप्रकम्पः अलोलः, नितम्बः कटकदेशः यस्मिन्कर्मणि तत्तथा । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । अखण्डिताः अशकलीकृताः गण्डोपलाः यस्मिन् कर्मणि तत्तथा । 'गह्वरं गण्डशैलास्तु च्युतास्स्थूलोपला गिरेः’ इत्यमरः । अनुज्झितः निर्झराणां गिरिनदीनां प्रवाहः प्रवहनं यस्मिन् कर्मणि तत्तथा । 'प्रवाहो निर्झरो झरः' इत्यमरः । यथापूर्वं प्रवहन्तः प्रवहन्त्येवेति भावः । अस्फुटिताः अविदळिताः पर्यन्तदर्यन्तराः समीपवर्तिकन्दरमध्यदेशा यस्मिन् कर्मणि तत्तथा । 'पर्यन्तभूः परिसरः' 'दरी तु कन्दरो वाऽस्त्री' इति च अमरः । अभञ्जिताः अभ्रंशिताः तरूणां वृक्षाणां पुञ्जा राशयो यस्मिन् कर्मणि तत्तथा । 'स्यान्निकायः पुञ्जराशी' इत्यमरः । अनुत्खातम् अनुत्पाटितलतानां वल्लीनां वितानं पूगो यस्मिन् कर्मणि तत्तथा । 'वल्ली तु व्रततिर्लता' 'पूगो वितानं प्रकरः' इति च अमरः । अस्पन्दं निश्चलं, मृगाणां बृन्दं समुदायो यस्मिन् कर्मणि तत्तथा । अनुद्भ्रान्ताः अभ्रमिता अनुत्थापिता वा, शकुन्ताः पक्षिणो यस्मिन्कर्मणि तत्तथा । 'शकुन्तपक्षिशकुनि' इत्यमरः । अव्यापन्नाः विपदमप्राप्ताः पन्नगाः यस्मिन् कर्मणि तत्तथा । 'आपन्न आपत्प्राप्तः स्यात्' 'उरगः पन्नगो भोगी' इति च अमरः । अस्तब्धः अनिरुद्धः सिद्धानां चारणानां