This page has not been fully proofread.

तृतीया श्वासः
 
२२७
 
1 समुद्धृत्य तमा रसातलप्रतिष्ठमपि सद्यस्समारोपितं कलममिव
लीलया प्रस्थिताः दुग्धार्णवं प्रति देवासुराः ।
 
अशिथिलशिखरम् अग्रकम्पनितम्बम् अखण्डितगण्डोपलम् अनु-
ज्झितनिर्झरप्रवाहम् अस्फुटितपर्यन्तदर्यन्तरम् अभञ्जिततरुपुञ्जम् अनु-
त्खातलतावितानम् अस्पन्दमृगबृन्दम् अनुद्भ्रान्तशकुन्तम् अव्यापन-
सौघोत्सेधविटङ्कसङ्घा यस्मिन् तत्तथाभूतम्, अजनि आसीदित्यर्थः ॥ समुद्धत्येति ॥
आरसायास्तलं पाताळावधि, प्रविष्टं व्याप्य संस्थितमपीत्यर्थ: । तं मन्दराद्रिं सद्यः
तत्क्षणे समारोपित निखातं कलमं ब्रीद्घोष घिसस्यमिव । 'कलमश्शालले खिन्ये
शारें लाक्षारसेऽङ्कुरे' इत्यमरः । लीलया भगवदनुग्रहप्रयुक्तानायासविलासेन
समुत्य उत्पाट । धृत्वेत्यर्थः । देवासुरा: दुग्धार्णवं क्षीरसमुद्रं प्रति
प्रस्थिताः प्रययुः । अथ तद्वहनचातुर्य वर्णयति ॥ अशिथिलेति ॥ देवासुराः
मन्दराद्रि, इतोऽतिरिक्त सर्वं द्वितीयान्तं क्रियाविशेषणमिति बोध्यम् । अशि--
थिलान्य विगळनानि शिखराणि शृङ्गाणि यस्मिन् कर्मणि तत्तथा । 'कूटोऽस्त्री
शिखरं शृङ्गम्' इत्यमरः । अप्रकम्प: अलोलः, नितम्ब: कटकदेश: यस्मिन्
कर्मणि तत्तथा । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । अखण्डिताः अशकल:-
कृता: गण्डोपलां: यस्मिन् कर्मणि तत्तथा । 'गहरं गण्डशैलास्तु च्युतास्स्थूलोपला
गिरे: " इत्यमरः । अनुज्झितः निर्झराणां गिरिनदीनां प्रवाह: प्रवहनं यस्मिन् कर्मणि
तत्तथा । 'प्रवाही निर्झरो झर : ' इत्यमरः । यथापूर्व प्रवहन्तः प्रवहन्त्येवेति
भावः । अस्फुटिता: अविदळिताः पर्यन्तदर्यन्तराः समीपवर्तिकन्दरमध्यदेशा
यस्मिन् कर्मणि तत्तथा । 'पर्यन्तभूः परिसर : ' 'दरी तु कन्दरो वाऽस्त्री' इति च
अमरः । अभञ्जिताः अभ्रंशिताः तरूणां वृक्षाणां पुञ्जा राशयो यस्मिन् कर्मणि
'स्यान्निकाय: पुञ्जराशी' इत्यमरः । अनुत्खातम् अनुत्पाटितलतानां वल्लीनां
वितान पूंगों यस्मिन् कर्मणि तत्तथा । 'वल्ली तु व्रततिलता' 'पूगो वितानं
प्रकरः' इति च अमरः । अस्पन्दं निश्चलं, मृगाणां बृन्दं समुदायो यस्मिन् कर्मणि
तत्तथा । अनुदुद्भ्रान्ता: अभ्रमिता अनुत्थापिता वा, शकुन्ताः पक्षिणो यस्मिन्
कर्मणि तत्तथा । 'शकुन्तपक्षिशकुनि' इत्यमरः । अव्यापन्नाः विपदमप्राप्ताः
 

 
चैं
 
..
 
पन्नगा: यस्मिन् कर्मणि तत्तथा । 'आपन्न आपत्प्राप्तः स्यात्' 'उरगः पन्न-
गो· भोगी' इति च अमरः । अस्तब्धः अनिरुद्धः सिद्धानां चारणानां
 
~