This page has been fully proofread twice.

खेलन्त्यश्शतशः फणीन्द्रसुदृशः स्वच्छन्दमत्रास्पदे
हृष्यद्भिः प्रतिलेभिरे दिविचरैरक्लेशमप्रार्थितम् ॥ ४३ ॥
 
अपि च ।
 
अभ्यर्णस्थलभाजि तंत्र शिखरिण्यामूलमुन्मूलिते
तत्क्षोभक्षुभिते च काञ्चनगिरौ किञ्चित्समाकुञ्चिते ।
विभ्रश्यद्गृहभित्तिं विश्लथपुरद्वारं विशीर्णत्रुटत्-
सौधोत्सेधविटङ्कसङ्घमजनि स्थानं सुराणां तदा ॥ ४४ ॥
 
[commentary]
 
मन्दराद्रेः मूले बलात् सामर्थ्यमाश्रित्य । ल्यब्लोपे पञ्चमी । उन्मूलिते उत्पाटिते सति । देवासुरैरिति शेषः । अत्रैतन्मन्दरमूलसंबन्धिनि अन्तरे छिद्रे । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । स्वच्छन्दं निरवग्रहं यथा तथा । प्रतिबन्धरहितं यथा तथेति यावत् । 'स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः' इत्यमरः । खेलन्त्यः
क्रीडन्त्यः फणीन्द्रसुदृशः नागकन्यकाः अविद्यमानः क्लेशः यस्मिन् कर्मणि यथा भवति तथा । अविद्यमानं प्रार्थितम्, भावे क्तः । प्रार्थनं यस्मिन् कर्मणि तद्यथा तथा, हृष्यद्भिः सन्तुष्यद्भिः द्विविचरैः देवासुरैरित्यर्थः । अक्लेशमनायासं यथा तथा प्रतिलेभिरे ददृशिरे ॥ अभ्यर्णेति ॥ अभ्यर्णस्थलं अन्तिकंप्रदेशं भाजिनि प्राप्ते । 'उपकुण्ठान्तिकाभ्यर्ण' इत्यमरः । तत्र शिखरिणि तस्मिन् मन्दराद्रौ । 'महीध्रे शिखरिक्ष्माभृत्' इत्यमरः । आमूलं मूलमभिव्यांयाप्य समुन्मूलिते उत्पाटिते तत्क्षोभेण तस्याद्रेः उत्पाटनचालनादिलक्षणक्षोभेण क्षुभिते अस्वास्थ्यं प्रापिते काञ्चनगिरौ सुवर्णाद्रौ किञ्चिदीषत्समाकुञ्चिते आनते सति तदा तत्काले सुराणां स्थानं स्वर्गः विभ्रश्यन्त्यः विपतन्त्यः गृहभित्तयः सदनकुड्यानि यस्मिन् तत्तथाभूतम् । 'स्त्रियाः पुंवत् --' (६.३.३४) इत्यादिना पुंवद्भावः । 'भित्तिः स्त्री कुड्यमेडूकम्' इत्यमरः । 'विश्लथानि विगलिथानि पुरद्वाराणि अमरावतीप्रतीहाराः यस्मिन् तत्तथाभूतं । सौधाः राजसदनानि । 'सौघोऽस्त्री राजसदनम्' इत्यमरः । तेषामुत्सेधः औन्नत्यम् । 'उत्सेधः काय उन्नतिः' इत्यमरः । विटङ्काः परिपालितकपोतपक्षिस्थानानि । 'कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम्' इत्यमरः । तेषां सङ्घः समूहः स च तौ विशीर्णत्रुटन्तः भिन्नच्छिन्नाः