This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
खेलन्त्यश्शतशः फणीन्द्रसुदृशः स्वच्छन्दमत्रास्पदे

हृष्यद्भिः प्रतिलेभिरे दिविचरैरक्लेशमप्रार्थितम् ॥ ४३ ॥
 

 
अपि च ।'
 
'

 
अभ्यर्णस्थलभाजि तंत्र शिखरिण्यामूलमुन्मूलिते

तत्क्षोभक्षुभिते च काञ्चनगिरौ किञ्चित्समाकुञ्चिते ।

विभ्रश्यद्गृहभित्तितिं विश्लथपुरद्वारं विशीर्णैत्रुटत्-

सौधोत्सेधविटङ्कसङ्घमजनि स्थानं सुराणां तदा ॥ ४४ ॥
 

 
[commentary]
 
मन्दरादेःद्रेः मूले बलात् सामर्थ्यमाश्रित्य । ल्यब्लोपे पञ्चमी । उन्मूलिते उत्पाटिते
सति । देवासुरैरिति शेषः । अत्रैतन्मन्दरमूलसंबन्धिनि अन्तरे छिद्रे । 'अन्तर-
मवकाशावधिपरिधानान्तर्धिभेदतादुर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि
च' इत्यमरः । स्वच्छन्दं निरवग्रहं यथा तथा । प्रतिबन्धरहितं यथा तथेति
 
-
 
"
 
7
 
यावत् । 'स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः' इत्यमरः । खेलन्त्यः

क्रीडन्त्यः फणीन्द्रसुदृशः नागकन्यका:काः अविद्यमानः क्लेश:शः यस्मिन् कर्मणि यथा
भवति तथा । अविद्यमानं प्रार्थितम्, भावे क्तः । प्रार्थनं यस्मिन् कर्मणि तद्यथा
तथा, हृष्यद्भिः सन्तुष्यद्भिः द्विविचरैः देवासुरैरित्यर्थः । अक्लेशमनायासं यथा तथा
प्रतिलेभिरे दृदृशिरे ॥ अभ्यर्णेति ॥ अभ्यर्णस्थलं अन्तिकंप्रदेशं भाजिनि प्राप्ते ।
'उपकुण्ठान्तिकाभ्यर्ण' इत्यमरः । तत्र शिखरिणि तस्मिन् मन्दराद्रौ । 'महीधे
ध्रे शिखरिक्ष्माभृत्' इत्यमरः । आमूलं मूलमभिव्यांप्य समुन्मूलिते उत्पाटिते
तत्क्षोभेण तस्याद्रेः उत्पानचालना दिलक्षणक्षोभेण क्षुमिभिते अस्वास्थ्यं प्रापिते
काञ्चनगिरौ सुवर्णाद्रौ किञ्चिदीषत्समाकुञ्चिते आते सति तदा तत्काले
सुराणां स्थानं स्वर्गः विश्भ्रश्यन्त्यः विपतन्त्यः गृह भित्तयः सदनकुड्यानि
यस्मिन् तत्त्थाभूतम् । 'स्त्रिया:याः पुंवत् --’ (6-3-34६.३.३४) इत्यादिना पुंवद्भाव:वः । 'भित्तिः
9
'
स्त्री कुड्यमेडूकम्' इत्यमरः । 'विश्थानि विगलिथानि पुरद्वाराणि अमरावती -
प्रतीहाराः यस्मिन् तत्तथाभूतं । सौघा:धाः राजसदनानि । 'सौघोऽस्त्री राजसदनम्'
इत्यमरः । तेषामुत्सेवःधः औन्नत्यम् । 'उत्सेध:धः काय उन्नतिः' इत्यमरः ।
 
2
 
विटङ्का:काः परिपालितकंपोतपक्षिस्थानानि । 'कपोतपालिकायां तु विटङ्कं पुन्नपुंस-
कम्' इत्यमरः । तेषां सङ्घः समूहः स च तोतौ विशीर्णलुत्रुटन्तः भिन्नच्छिन्नाः