This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
खेलन्त्यश्शतशः फणीन्द्रसुदृशः स्वच्छन्दमत्रास्पदे
हृष्यद्भिः प्रतिलेभिरे दिविचरैरक्लेशमप्रार्थितम् ॥ ४३ ॥
 
अपि च ।'
 
'अभ्यणस्थलभाजि तंत्र शिखरिण्यामूलमुन्मूलिते
तत्क्षोभक्षुभिते च काञ्चनगिरौ किञ्चित्समाकुञ्चिते ।
विभ्रश्यद्गृहभित्ति विश्लथपुरद्वार विशीर्णैत्रुटत्-
सौधोत्सेधविसमजनि स्थानं सुराणां तदा ॥ ४४ ॥
 
मन्दरादेः मूले बलात् सामर्थ्यमाश्रित्य । ल्यब्लोपे पञ्चमी । उन्मूलिते उत्पाटिते
सति। देवासुरैरिति शेषः । अत्रैतन्मन्दरमूलसंबन्धिनि अन्तरे छिद्रे । 'अन्तर-
मवकाशावधिपरिधानान्तर्धिभेदतादुर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि
च' इत्यमरः । स्वच्छन्दं निरवग्रहं यथा तथा । प्रतिबन्धरहित यथा तथेति
 
-
 
"
 
7
 
यावत् । 'स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निखग्रहः' इत्यमरः । खेलन्त्यः
क्रीडन्त्यः फणीन्द्रसुदृशः नागकन्यका: अविद्यमानः क्लेश: यस्मिन् कर्मणि यथा
भवति तथा । अविद्यमानं प्रार्थितम्, भावे क्तः । प्रार्थनं यस्मिन् कर्मणि तद्यथा
तथा, हृष्यद्भिः सन्तुष्यद्भिः द्विविचरैः देवासुरैरित्यर्थः । अक्लेशमनायासं यथा तथा
प्रतिलेभिरे दृदृशिरे ॥ अभ्यर्णेति ॥ अभ्यर्णस्थलं अन्तिकंप्रदेश भाजिनि प्राप्ते ।
'उपकुण्ठान्तिकाभ्यर्ण' इत्यमरः । तत्र शिखरिणि तस्मिन् मन्दराद्रौ। 'महीधे
शिखरिक्ष्माभृत्' इत्यमरः । आमूल मूलमभिव्यांप्य समुन्मूलिते उत्पाटिते
तत्क्षोभेण तस्या उत्पादनचालना दिलक्षणक्षोभेण क्षुमिते अस्वास्थ्य प्रापिते
काञ्चनगिरौ सुवर्णाद्रौ किञ्चिदीमाञ्चिते आते सति तदा तत्काले
सुराणां स्थान स्वर्गः विश्रश्यन्त्यः विपतन्त्यः गृह भित्तयः सदनकुड्यानि
यस्मिन् तत्त्थाभूतम् । 'स्त्रिया: पुंवत् – (6-3-34) इत्यादिना पुंवद्भाव: । 'भित्तिः
9
'कुड्यमेडूकम्' इत्यमरः । 'विश्वथानि विगलिथानि पुरद्वाराणि अमरावती -
मतीहाराः यस्मिन् तत्तथाभूतं । सौघा: राजसदनानि । 'सौघोऽस्त्री राजसदनम्'
इत्यमरः । तेषामुत्सेवः औन्नत्यम् । 'उत्सेध: काय उन्नतिः' इत्यमरः ।
 
2
 
विटङ्का: परिपालितकंपोतपक्षिस्थानानि । 'कपोतपालिकायां तु विटङ्कं पुन्नपुंस-
कम्' इत्यमरः । तेषां सङ्घः समूहः स च तो विशीर्णलुटन्तः भिन्नच्छिन्नाः