We're performing server updates until 1 November. Learn more.

This page has been fully proofread twice.

भगवानम्बिकारमणश्चतुरतरमस्साभिर्वाहनीयः' इति, वादयत्सु वादित्राणि गन्धर्वेषु, गायन्तीषु गाथाः किन्नरीषु, नृत्यन्तीषु निर्जरवारकान्तासु, श्लाघमानेषु चारणेषु, प्रयुञ्जानेष्वाशिषः परमर्षिषु, वर्षत्सु
दिव्यवलाहकेषु पुष्पवर्षाणि, हर हरेति तारध्वनिभिरापूरयन्त विध्यण्डमण्डलमुन्नमयामासुरुर्वीधरं मन्दरम् ।
 
आपाताळनिमग्नमूर्तिनि बलान्मूले समुन्मूलिते
शैलस्यास्य भुजङ्गराजनगरप्रासादशृङ्गायिते ।
 
[commentary]
 
'सर्वं स्याद्वाहनं यानम्' इत्यमरोऽप्याह । तद्गतः यानं प्राप्त इव वाहनीयः वोढव्य इतीत्थं परस्परम् अन्योन्यम्, उद्बोधयन्तः उपदिशन्तः देवासुराः गन्धर्वेषु देवयोनिविशेषेषु वादित्राणि
वीणामुरजकांस्यवंशलक्षणश्चतुर्विधवाद्यानि । 'चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्' इत्यमरः । वादयत्सु नादयत्सु सत्सु । किन्नरीषु किन्नरस्त्रीषु गाथाः षट्पादोपलक्षितपद्यविशेषान् । 'गाथृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' इति धातोः पचाद्यचि 'अजाद्यतष्टाप्' (४.१.४) । गायन्तीषु गानं कुर्वन्तीषु । निर्जरवनितासु देववेश्यासु नृत्यन्तीषु नर्तनं कुर्वन्तीषु । चारणेषु देवयोनिविशेषेषु श्लाघमानेषु परमेश्वरस्तुतिं कुर्वाणेषु । परमर्षिषु । 'ॠत्यकः' (६.१.१२८) इति पाक्षिकप्रकृतिभावाभावः । वसिष्ठवामदेवादिषु आशिषः हिताशंसनानि । स्वस्तिवाचनानीति यावत् । 'स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः' इत्यमरः । प्रयुञ्जानेषु प्रपठत्सु सत्सु । दिव्या ये वलाहकाः मेघाः। 'वारिवाहः स्तनयित्नुर्व[ब]लाहकः' इत्यमरः । पुष्पाणां वर्षाणि वर्षणानि वर्षत्सु कुर्वत्स्वित्यर्थः । धातूनामनेकार्थत्वात् । हरहरेत्येवंविधैः तारध्वनिभिः अत्युच्चध्वनिभिः विध्यण्डमण्डलं ब्रह्माण्डगोळकं आपूरयन्तः सम्यक्पूरणं कुर्वन्तः मन्दरमुर्वीधरं [^१]मन्दरपर्वतम्, उन्नमयामासुः उत्कूलयामासुः ॥ आपातालेति ॥ आपातालं पाताललोकमभिव्याप्य निमग्ना निमज्ज्य स्थिता मूर्तिस्तनुर्यस्य तत्तथाभूते अत एव भुजङ्गराजश्शेषः, तस्य नगरं भोगवतीपुरं तस्मिन् यः प्रासादः देवसदनं, देवस्थानमिति यावत् । राजसदनमिति चार्थः । 'प्रासादो देवभूभुजाम्’ इत्यमरः । देवाश्च भूभुजश्चेति द्वन्द्वाश्रयणात् । तस्य शृङ्गायिते शिखरवद्भासमाने अस्य शैलस्य
 
[^१] मन्दरोद्धारक्रमवर्णनमुखेनेदानीन्तनं कमलालयक्षेत्रेशरथोत्सवप्रकारमधुना अस्माभिः साक्षात् क्रियमाणं परम्परागतमिति दर्शयति ॥