2023-06-05 16:40:21 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सेव्याख्याने
आरोपयन्तः कङ्कणान्यङ्गदस्थानम्, 'उपवीतयन्तो निचीतलम्बीनि
हार मण्डलानि, उद्बोधयन्तः परस्परमसकृदपि 'समं निधत्त कराञ्चलानि,
सम्मुत्तम्भयत, समं विसंसयत, सममुच्छुसित, समं निःश्वसित, समं
कुरुत बलानि, परथा विशीर्येयुशिखराणि, विनमेदयमेव मन्दरः,
क्वापि चलेदपि ततो भद्रपीठं चन्द्रापीडस्य, समुद्विजेत दुहिता
शैलराजस्य, क्षुभ्येयुः प्रमथाः, कुप्येदपि शैलादिः, चतुरन्तयानगत इव
S
लम्बितब्रह्मसूत्रं तद्वलम्बीनि लम्बमानानि हाराणां वलयानि मण्डलानि । 'हारो
मुक्तावळी देवच्छन्द्रोऽसौ शतयष्टिकः इत्यमरः । उपवीतं सव्यभुजधृतं कुर्वन्तः ।
उपवीतशब्दात् 'तत्करोति' इति णिजन्ताल्लटश्शत्रादेशः । 'उपवीतं यज्ञसूत्रं प्रोद्धृते
दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीत कण्ठलम्बितम्' इत्युभयत्राप्यमरः ।
असकृत् मुहुर्मुहुरित्यर्थ: । 'मुहुः पुनः पुनश्शश्वद भीक्ष्णमसकृत्समौ' इत्यमरः ।
कराञ्चलांनि हस्ताग्राणि सममेकदा निघत्त न्यस्यतेत्यर्थः । सममेकदा उत्तम्भयत
उद्धरत । उत्पाटयतेति वाऽर्थः । सममेकदा विसंसयत प्रक्षिपत पातयतेति वाऽर्थः ।
सममेकदा उच्छ्वसित उच्छ्वासं कुरुत। सममेकदा निःश्वसित निःश्वासं कुरुतेत्यर्थः।
सममेकदा बलानि सामर्थ्यानि कुरुत श्रयतेति तात्पर्यार्थ: । परथा तथा
न चेदित्यर्थः । शिखराणि शृङ्गाणि विशीर्येयुः विशीर्णानि भवेयुः । अयं मन्दर
एव विनमेत् नम्रो भवेत् । तत्तस्मात् चन्द्रापीडस्य चन्द्रावतंसस्य शिवस्य भद्रपीठं
सिंहासनम् । 'नृपांसनं तु यद्भद्रासनं सिंहासनं तु तत्' इत्यमरः । क्वापि कुत्रचिदपि
चलेत् स्खलेत् । शिवस्य राजाधिराजत्वात्तदासनं सिंहासनमिति भावः । तदुक्तं
शिवरहस्ये – 'राजाधिराजस्सर्वेषां त्र्यम्बक स्त्रिपुरान्तकः' इति । शैलराजस्य हिम-
वतः दुहिता पुत्री उमादेवी समुद्विजेत भयं प्राप्नुयात् । प्रमथा: शिवपारिषदा:
क्षुभ्येयु: चाञ्चल्यं प्राप्नुयुः । 'क्षुभ सञ्चलने' इति धातुः । ततः लिङ् सम्भाव-
नायाम् । शिलादस्यापत्य शैलादिः नन्दीश्वरः अपि कुप्येत् अपि कोपं कुर्यात् ।
अत सर्वत्र अपिशब्द: सम्भावनायाम् । 'गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि
इत्यमरः । इतिः बोध्यम्। भगवान् षड्गुणैश्वर्यशाली अम्बिकारमणः उमाकान्तः
चतुरन्तयानं धीवरधर्तव्यो राजवाहनविशेषः तस्यान्दोळिकेत्यपि नामान्तरम् ।
1. "उपवीतयन्तो निवीतलम्बीनि हारमण्डलानि" - इत्यनेन निवीताभावे उपवीत-
मेत्र कर्तव्यं न प्राचीनावीत मन्यत पैतृकात्कर्मणः इति सदाचारं दर्शयति ॥