This page has been fully proofread once and needs a second look.

तृतीया श्वासः
 
२२३
 
ते तदनु प
र्जन्या इव गणयन्तश्च ते तदनु पर्जन्या इव गणयन्तश्च करगतमिव
 

 
कार्यमशेषं, पूर्वतो दिक्पतीन, दक्षिणतो देवानपरान्, पश्चिमतो बाणं
सहस्रबाहुम्, उत्तरतो महासुरानितरानपि विभज्य विनियुञ्जानाः, खाते
परितः परिखावलय इव मूलगर्ते कराञ्चलानि निदधानाः, परित्यजन्तः
प्रहरणानि, परिहरन्तोऽङ्ङ्गुळीयकांकानि, आबध्नन्तः कटितटेषूत्तरासङ्गम्,
 
R
 

 
[commentary]
 
अन्तरकन्दरः अन्तरस्थदरी यस्मिन् स तथाभूतम् । 'दरी तु कन्दरो वाऽस्त्री'
इत्यमरः । एवंविधं च ददृशुः । किलेति वाक्यालङ्कारे । अथ मन्दरोद्धारक्रमं वर्ण-
यितुमारभते ॥ गर्जन्त इति ॥ पर्जन्या:याः गर्जन्मेघा इव गर्जन्तः ध्वनिं कुर्वन्तः ।
'पर्जन्यौ रसदब्देन्द्रौ' इत्यमरः । अशेषं कृत्स्नम् । 'विश्वमशेषं कृत्स्नम्' इत्यमरः ।
कार्यं साध्यप्रयोजन करगतं हस्ततलप्राप्तमिव गणयन्तः गणनं कुर्वन्तः पूर्वतः
पूर्वभागेःगे । 'इतराभ्योऽपि दृश्यन्ते' ( 5-3-14 ५.३.१४) इति सप्तम्यास्तसिः । दिशां
पतयः इन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशानास्तान् । दक्षिणत:तः दक्षिणभागे
परानन्यान् देवान्
वसुसप्तमरुदादित्यान् । पश्चिमतः पश्चिमदिशि सहस्रं बाहवो
भुजा:-जाः यस्य सः तथाभूतं बाणं बाणासुरम् । उत्तरत:तः उत्तरस्यां दिशि इतरानन्यानपि
महासुरान् बलि - विरोचन - अन्धकासुरप्रभृतीन् विभज्य विभागं कृत्वा विनियुञ्जानाः
नियोगं कृत्वा, स्थापयन्त इत्यर्थः । परितः मन्दरमभित इत्यर्थः । खाते
वैदारिते । 'खनु अवदारणे' इति घाधातोर्भावे क्तप्रत्ययः । अत एव परिखावलये
परिखामण्डल: इव'लः इव स्थिते । 'परिखा मुद्गरेऽर्गळे' इति घट्टके 'परिखातेऽस्त्री
योगे प्राकारगोपुरे' इति नानार्थमाला । मूलगर्ते मूलदेशस्थश्वभ्रे मन्दराद्रेः
मूलदेशस्थरेखाकारच्छिद्र इति समुदितार्थः । कराञ्चलानि हस्ताग्राणि निदधानाः
न्यस्यन्तः उद्धर्तुमिति भावः । प्रहरणानि आयुधानि । 'आयुधं तु प्रहरणम्'
इत्यमरः । परित्यजन्तो विसृजन्त:तः अङ्गुळीयकानि ऊर्मिका:काः । 'अङ्गुलीयक मूर्मिका'
इत्यमरः । परिहरन्त:-तः उत्सृजन्तः । कटितटेषु श्रोणिदेशेषु । अवलग्नेष्विति
यावत् ॥ 'कटि:टिः श्रोणिः ककुद्मती इत्यमरः । उत्तरासङ्गं उत्तरीयवस्त्रम् । 'द्वौ
प्रावासेरोत्तरासङ्गौ समौ बृहतिका तथा । संव्यानमुत्तरीयं च इत्यमरः ।
वघ्बध्नन्तः आवेष्टनं कुर्वन्तः, कङ्कणानि करभूषणानि । 'कङ्कणं करभूषणम्'
इत्यमरः । अङ्गदानि केयूराणि । 'केयूरमङ्गदं तुल्ये' इत्यमरः । तेषां स्थानं
अंसदेश:शः तदारोपयन्त; गमयन्त:तः । आरोह्यन्त इति वाऽर्थः । निवीतं कण्ठ-
;
 
5%
 
A
 
N