This page has been fully proofread twice.

इति स्वेन स्वेन व्यवसितधियः काश्यपसुताः
समेता गर्जन्तस्सपदि चलयामासुरचलम् ॥ ४१ ॥
 
तदानीं च ।
 
[‍^१]निष्पतद्द्रुममुत्पतत्खगमद्भुतस्खलदश्मभू-
जर्झरस्रुतनिर्झराम्बुझळझळारवभैरवम् ।
गर्भगह्वरनिर्भरभ्रमदुद्भटानिलपूरित-
क्रन्ददन्तरकन्दरं किल मन्दरं ददृशुर्जनाः ॥ ४२ ॥
 
[commentary]
 
वृथावस्थितं मुधावस्थानं च जहित उत्सृजत । तस्मादेव धातोर्लोट् । इति इत्थं स्वेन स्वेन स्वयं स्वयं व्यवसिता निष्कृष्टा धियो बुद्धयो येषां ते तथा समेता मिळिताः काश्यपसुताः उभयेऽपि देवासुराः गर्जन्तः हर हरेति वक्ष्यमाणप्रकारेण नंदन्तस्सन्तः सपदि तत्क्षणं मन्दरं चलयामासुः चञ्चलयाञ्चक्रुः । चलशब्दात् 'तत्करोति' इति णिजन्तात्, 'कास्प्रत्ययात्' (३.१.३५) इत्यादिनाऽऽम्यामन्तादस्तेरनुप्रयोगः ॥ निष्पतदिति ॥ तदानीं चलीकरणसमये जनाः मन्दराद्रिं निष्पतन्तः निपतन्तः द्रुमाः वृक्षाः यस्मात्स तथाभूतं उत्पतन्तः उपर्युद्गच्छन्तः खगाः पक्षिणः यस्मात्स तथाभूतम् ।" अद्भुतमाश्चर्यं यथा तथा स्खलन्तः निपतन्तः ये अश्मानः पाषाणाः तेभ्यो भवन्तीत्यश्मभुवः ये जर्झराः ध्वनयः । 'जर्झरो निनदे शक्रध्वजे शीर्णे च वाच्यवत्' इति नानाथमाला । तैस्सह स्रुताः । कर्तरि क्तः । प्रसरन्त इत्यर्थः । ये निर्झराः प्रवाहाः 'प्रवाहो निर्झरो झरः' इत्यमरः । तेषोंषां यान्यम्बूनि तेषां झळझळेति ये आरवाः ध्वनयः तैः भैरवः भीषणः । 'भैरवो ना क्षेत्रपालभर्गयोर्भीषणे त्रिषु' इति नानार्थमाला । गर्भः कुक्षिदेशः । 'कुक्षिभ्रूणार्भका गर्भाः' इत्यमरः । तस्मिन् यानि गह्वराणि देवखातबिलानि । 'देवखातबिले गुहा । गह्वरम् --' इत्यमरः । तेषु निर्भरम् अत्यन्तम् । 'अतिमात्रोद्गाढनिर्भरम्' इत्यमरः । भ्रमन् घूर्णमानः उद्भटः बलवान् महानिति वाऽर्थः । 'स्यादुद्भस्तु महति बलवत्यपि सङ्गरे' - इति धनञ्जयः । योऽनिलो वायुः तेन पूरितः अत एव क्रन्दन्
 
[‍^१] "निष्पतद्द्रुमम्"-- (३-४२) पद्येयं चलीकरणसमये मन्दरकम्पनस्य पुरहरानुकम्पनस्य चानुगुणवृत्तयुतं नटराजनाट्यसमयगीतवत् श्रुतिमधुरं रसिकसाक्षिकं भवति ॥