This page has been fully proofread twice.

आकण्ठं ते पपुरिममविच्छिन्नधारं समीरं
प्राप्ताश्शम्भोरुपकरणतां पन्नगास्तन्नगाग्रे ॥ ४० ॥
 
अथ तमदृष्टचरं वेगमनलसारथेरभिनन्दत इव मन्दरस्य गिरेरलक्ष्यत मनागिव शिरःकम्पः ।
 
चकम्पे हन्तायं गिरिरनुचकम्पे पुरहरो
जहीतेदं क्लैब्यं जहित च वृथावस्थितमिदम् ।
 
[commentary]
 
नि तैः। कालं कालं वीप्सायां द्विर्भावः । निखिलं कालमित्यर्थः । यापयांचक्रिरे क्षपयामासुरित्यर्थः । ते सर्पाः अविच्छिन्ना अविनष्टा धारा परम्परा यस्य स तथाभूतम् समीरं मारुतं आकण्ठं कण्ठमभिव्याप्य पपुः पानं चक्रुः । शम्भोरीशस्य उपकरणतां कङ्कणत्वयैग्रैवेयकत्वनूपुरत्वादिरूपोपकरणभावं प्राप्ताः गताः । शेषवासुकिवत् स्थौल्यगुणयोगादिति भावः इति केचित् वदन्ति । [‍^१]अन्ये तु शम्भोरुपकरणतां प्राप्ता ये पन्नगाः शेषवासुकिप्रभृतयः स्तोकस्तोकः ईषदल्पः । 'आबाधे च' (८.१.१०) इति पीडायां द्योत्यायां द्विर्भावः । प्रचलन् योऽनिलः तस्य ग्रासः । 'ग्रसु अदने' इति धातोर्भावे घञीदं रूपं भवति । तस्य दुर्भिक्षमन्नाभावः । तत्खेदैः
कालं कालं यापयांचक्रिरे, ते नागाः अविच्छिन्नधारं समीरं कण्ठावधि पपुरिति प्रकारान्तरेण योजयित्वाऽवशिष्टार्थं तु प्राग्वदित्याहुः ॥ अथेति ॥ अथ सर्वतो वायुवहनानन्तरं अनलसारथेः वायोः अदृष्टचरः पूर्वं न दृष्ट इत्यर्थः । 'भूतपूर्वे चरट्' (५.३.५३) इति चरट् । यो वेगः, गतिशैघ्र्यं तं अभिनन्दतः श्लाघमानस्येव मन्दरस्य गिरेः मनाक् शिरःकम्पः शिखरभागचाञ्चल्यम् अलक्ष्यत अदृश्यत ॥ चकम्प इति ॥ अयं गिरिः मन्दरः चकम्पे चचाल । 'कपि चलने' इति धातोर्लिट् । हन्तेत्यनुकम्पायाम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । पुरहरः त्रिपुरान्तकः अनुचकम्पे अनुजग्राह । इदं विद्यमानं क्लीबाः षण्डाः तेषां भावः क्लैब्यं जहीत त्यजत । 'ओ हाक् त्यागे' इति धातोर्लोट् । इदं परिदृश्यमानं
 
[‍^१] केषांचिद्व्याख्याने गुणवृत्त्याश्रयणं, लोकप्रसिद्धनागाभरणता परमशिवस्य विरुध्यते, को वा नागवत्स्थूलं भूषणं विवेकी तत्रापि विरक्तो धारयेत् इत्यादि असामञ्जस्यम् ; अन्येषां व्याख्याने सर्वसामञ्जस्यम्, हालाहलभक्षणेन सर्वजगदापदुद्धारकता स्फुरिता स्यादिति विवेक्तव्यम् ॥