This page has not been fully proofread.

तृतीयांश्वासः
 
आकण्ठं ते पपुरिममविच्छिन्नधारं समीरं
 
प्राप्ताश्शम्भोरुपकरणतां पन्नगास्तन्नगाग्रे ॥ ४० ॥
 
अथ तमदृष्टचरं वेगमनलसारथेरभिनन्दत इव मन्दरस्य
गिरेरलक्ष्यत मनामिक शिरःकम्पः ।
 
चकम्पे हन्तायं गिरिरनुचकम्पे पुरहरो
जहीतेदं क्लैव्यं जहित च वृथावस्थितमिदम् ।
 
२२१
 
नि तैः। कालं कालं वीप्सायां द्विर्भावः । निखिलं कालमित्यर्थः । यापयांचक्रिरे
क्षपयामासुरित्यर्थः । ते सर्पा: अविच्छिन्ना अविनष्टा धारा परम्परा यस्य स तथा-
भूतम् समीरं मारुतं आकण्ठं कण्ठमभिव्याप्य पपुः पानं चक्रुः । शम्भोरीशस्य
उपकरणतां कणत्वयैवेयकत्वनू पुरत्वादिरूपोपकरणभावं प्राप्ताः गताः । शेषवासु-
किंवत् स्थौल्यगुणयोगादिति भावः इति केचित् वदन्ति । 'अन्ये तु शम्भोरुप-
करणतां प्राप्ता ये पन्नगाः शेषवासुकिप्रभृतयः स्तोकस्तोक: ईषदल्प: । 'आबाघे
च' (8-1-10) इति पीडायां द्योत्यायां द्विर्भावः । प्रचलन् योऽनिलः तस्य प्रासः ।
'ग्रसु अदने' इति धातोर्भावे घञीदं रूपं भवति । तस्य दुर्भिक्षमन्नाभावः । तत्खेदैः
कालं कालं यापयांचक्रिरे, ते नागा: अविच्छिन्नधारं समीरं कण्ठावधि पपुरिति
प्रकारान्तरेण योजयित्वाऽवशिष्टार्थं तु प्राग्वदित्याहुः ॥ अथेति ॥ अथ सर्वतो
 
S
 
G
 
1
 
वायुवहनानन्तरं अनलसारथे: वायोः अदृष्टचर: पूर्व न दृष्ट इत्यर्थ: । 'भूतपूर्वे चरट्'
( 5-3-53) इति चरट् । यो वेगः, गतिशैघ्रयं तं अभिनन्दतः श्लाघमानस्येव
मन्दरस्य गिरे: मनाकू शिरः कम्प: शिखरभागचाञ्चल्यम् अलक्ष्यत अदृश्यत
॥ चकम्प इति ॥ अयं गिरिः मन्दरः चकम्पे चचाल । 'कपि चलने' इति
घातोलिट् । हन्तेत्यनुकम्पायाम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । पुरहरः
त्रिपुरान्तकः अनुचकम्पे अनुजग्राह । इदं विद्यमानं क्लीबाः षण्डाः तेषां भावः
क्लैब्यं जहीत त्यजत । 'ओ हाक् त्यागे' इति धातोर्लोट् । इदं परिदृश्यमानं
 
.
 
1. केषांचिंद्वयाख्याने गुणवृत्त्याश्रयणं, लोकप्रसिद्धनागाभरणता परमशिवस्य
विरुध्यते, को वा नागवत्स्थूलं भूषणं दिवेकी तत्रापि विरक्तो धारयेत् इत्यादि असामञ्जस्यम्;
अन्येषां व्याख्याने सर्वसामञ्जस्यम्, हालाहलभक्षणेन सर्वजगदापदुद्धारकता व स्फुरिता
स्यादिति निवेशव्यम् ॥