This page has been fully proofread twice.

अथ दिवसावसान इव पद्मभुवः पवनः
स्वयमकृत क्षणादिव विदिक्षु दिक्षु च चरन् ।
अलघुविघूर्णितार्णवसमुक्षितकुक्षितल-
क्षितिवलयार्द्रताशिथिलमूलमहार्यकुलम्[‍^१] ॥ ३९ ॥
 
स्तोकस्तोकप्रचलदनिलग्रासदुर्भिक्षखेदैः
कालंकालं कथमपि चिरं यापयाञ्चक्रिरे ये ।
 
[commentary]
 
नानार्थमाला । आलम्ब्य आश्रित्य सर्वतः परितः वाहि संचरेत्यर्थः । 'वा गति-गन्धनयोः' इति धातुः । इति इत्थं गन्धवाहं वायुम् । 'गन्धवाहानिलाशुगाः' इत्यमरः । सन्दिदेश आदिदेशेत्यर्थः ॥ अथेति ॥ अथ गुर्वाज्ञानन्तरं पवनो वायुः पद्मभुवो ब्रह्मणः दिवसावसाने दिनविरमे । प्रळयकाल इवेति यावत् ।
ब्रह्मदिनस्वरूपमुक्तं पराशरपुराणे -- 'कल्पशङ्ख्या दिनञ्चैकं ब्रह्मणः कथ्यते शिवे । चतुर्युगसहस्राणां परिवर्तो हि कल्पकः ॥ ब्रह्मणो द्व्यायुषान्ते च महप्रळय उच्यते । विष्णोरेकदिनं प्रोक्त तस्यान्ते रौद्रकं दिनम् ॥ तस्यान्ते चेश्वरस्याहुः तस्यान्ते च सदाशिवः ॥' इति । क्षणादिव क्षणमात्रं विहायैवेत्यर्थः । 'दिक्षु प्राच्यादिचतसृषु विदिक्षु आग्नेयादिचतसृषु कोणेष्वित्यर्थः । चरन्
वहन्नित्यर्थः । अहार्याः पर्वताः । "'अहार्यधरपर्वताः' इत्यमरः । तेषां वरं श्रेष्ठं मन्दराद्रिम् । 'दैवाद्वृते वरः श्रेष्ठे त्रिषु’ इत्यमरः । अलघ्वधिकं यथा तथा विघूर्णितः भ्रमितो योऽर्णवस्समुद्रः तेन समुक्षितं संसिक्तं कुक्षितलं जठरदेशो यस्य स तथाभूतः यः क्षितिवलयः भूमण्डलं तस्यार्द्रता क्लिन्नता । 'आर्द्रं सार्द्रं किन्नम्' इत्यमरः । तथा शिथिलं विभजद्विश्लिष्यद्वां मूलं मूलदेशः यस्य स तथाभूतं अंकृत चकारेत्यर्थः । 'कृ'धातोर्लुङि 'हस्वादङ्गात्' (८.२.२७) इति सिज्लोपः । बृहस्पतिनिरीक्षितलग्नप्रवृत्तस्य कस्य वा कार्यं न सिध्येदिति भावः ॥ स्तोकेति ॥ तस्य नगस्य मन्दराद्रेः अग्रे अग्रदेशे ये पन्नगाः सर्पाः । 'उरगः पन्नगो भोगी’ इत्यमरः । चिरं स्तोकं स्तोकं अत्यल्पं यथा तथा। 'स्तोकाल्पक्षुल्लकास्सूक्ष्मम्' इत्यमरः । मान्द्यकादाचित्कत्वद्योतनाय द्विर्भावः । प्रचलन् प्रसरन्
यः अनिलः वायुः तस्य ग्रास ओदनं तस्य दुर्भिक्षमलोलाभः तेन ये खेदाः व्यसना-
 
[‍^१] 'अहार्यवरम्' इति व्याख्यापाठः ।