This page has been fully proofread twice.

ततस्तथा कुरुतेति घनस्तनितगम्भीरया गिरा गगनसम्भवया
सन्तोषितास्सन्तोऽसुराः सुराश्च समनह्यन् ।
 
विनिघ्नन्तः पादैरथ विचलयन्तः करतलैः
उदस्यन्तो दण्डैरुपरि च किरन्तस्तमिषुभिः ।
निषेदुश्श्रान्तास्ते यदपि च विषेदुर्दनुभुवो
निमित्तं दुष्टं तन्निखिलमुशना तेषु जगृहे ॥ ३८ ॥
 
अथ प्रतीक्षमाणश्चरलग्नमाचार्यो दिवौकसां 'संवर्तोचितं रूपमालम्ब्य सर्वतो वाहि' इति सन्दिदेश गन्धवाहम् ।
 
[commentary]
 
सुधाम् । पीयूषममृतं सुधा' इत्यमरः । लब्धुं प्राप्तुम् इच्छामः प्रार्थयामः इति यत्तत् प्रार्थनम्, अनुमन्यतां संमन्यताम्, इत्येवमस्तुवन्निति पूर्वेणान्वयः । तथेति ॥ घनस्तनितं मेघध्वनिः तद्वद्गम्भीरया । त्वरानुत्पन्नयेति प्राकरणिकार्थः । गगनादाकाशात् संभवया संभूतया यथातथा यथा रुचीति तात्पर्यार्थः । कुरुत कुरुध्वमिति गिरा वाचा सन्तोषिताः हर्षं प्रापितास्सन्तः असुराः देवासुराः समनह्यन् सन्तानाहं चक्रुरित्यर्थः ॥ विनिघ्नन्त इति ॥ अथाकाशवाणीश्रवणानन्तरं ते दनुभुवः असुराः तं मन्दराद्रिं पादैश्चरणैः विनिघ्नन्तः धावित्वागत्य प्रहरन्त इत्यर्थः । करतलैः विचलयन्तः आमूलं आशृङ्गं लोकं कुर्वन्तः । चलशब्दात् 'तत्करोति --' इति णिजन्ताल्लटश्शत्रादेशः । दण्डैः उदस्यन्तः उत्क्षिपन्तः उपरि इषुभिः बाणैः किरन्तः प्रहरन्त इति तात्पर्यार्थः । वर्षन्त इति वा । अत एव श्रान्ताः
श्रान्तिमन्तः । अर्शआदिभ्योऽच्' (५.२.१२७) इत्यच्प्रत्ययः । तथाभूतास्सन्तः निषेदुः तस्थुरिति यत् । अपि च विषेदुः विषण्णा बभूवुरिति यत् तदुभयं उशना शुक्रः । 'उशना भार्गवः कविः' इत्यमरः । तेषु दानवेषु विषये दुष्टं निमित्तमिति भाव्यमृतालाभसूचकदुश्शकुनमिति जगृहे जज्ञे ॥ अथेति ॥ अथ दानवश्रान्त्युपवेशानन्तरं चरसंज्ञकं लग्नं चरलग्नंम् । 'राशीनामुदयो लग्नं ते तु मेषवृषादयः' इत्यमरः । चरस्थिरद्विस्वभावभेदेन लग्नत्रैविध्यं ज्योतिश्शास्त्रसिद्धम् । प्रतीक्षमाणः प्रतीक्षां कुर्वन्नित्यर्थः । दिवौकसां देवानामाचार्यो गुरुः । 'बृहस्पतिः सुराचार्यः' इत्यमरः । संवर्तः प्रलयकालः तस्योचितम् अर्हम् । 'संवर्तः प्रळयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः । रूपं स्वभावम् । 'रूपं स्वभावे शुक्लादौ' इति