2023-06-05 16:40:19 by ambuda-bot
This page has not been fully proofread.
तृतीयाश्वासः
२१९
ततस्तथा कुरुतेति घनस्तनितगम्भीरया गिरा गगनसम्भवया
सन्तोषितास्सन्तोऽसुराः सुराश्च समनहान् ।
विनिघ्नन्तः पादैरथ - विचलयन्तः करतलैः
1 उदस्यन्तो दण्डैरुपरि च किरन्तस्तमिषुभिः ।
निषेदुश्श्रान्तास्ते यदपि च विषेदुर्दनुभुवो
निमित्तं दुष्टं तन्निखिलमुशना तेषु जगृहे ॥ ३८ ॥
अथ प्रतीक्षमाणश्वरलग्नमाचार्यो दिवौकसां 'संवर्तोचितं रूपमा
लव्य सर्वतो वाहि' इति सन्दिदेश गन्धवाहम् ।
:
सुधाम्पीयूषममृतं सुधा' इत्यमरः । लब्धुं प्राप्तुम् इच्छामः प्रार्थयामः इति यत्
तत् प्रार्थनम्, अनुमन्यतां संमन्यताम्, इत्येवमस्तुवन्निति पूर्वेणान्वयः । तथेति ॥
घनस्तनितं मेघध्वनिः तद्वद्गम्भीरया । त्वरानुत्पन्नयेति प्राकरणिकार्थः । गगना-
द्राकाशात् संभवया संभूतया यथातथा यथा रुचीति तात्पर्यार्थः । कुरुत कुरुध्व-
मिति गिरा वाचा सन्तोषिताः हर्षं प्रापितास्सन्तः असुरा: देवासुराः समनयन्
सन्ताहं चक्कुरित्यर्थः ॥ विनिघ्नन्त इति ॥ अथाकाशवाणी श्रवणानन्तरं ते दनुभुवः
असुराः तं मन्दराद्रि पाश्चरणैः विनिघ्नन्तः घावित्वागत्य प्रहरन्त इत्यर्थः ।
करतलै: विचलयन्तः आमूलं आशृङ्ग लोकं कुर्वन्तः । चलशब्दात् 'तत्करोति —'
इति णिजन्तालटश्शला देश: । दण्डै: उदस्यन्तः उत्क्षिपन्त उपरिषुभिः
खाणे - किरन्त; महरन्त इति तात्पर्यार्थः । वर्षन्त इति वा । अत एव श्रान्ताः
श्रान्तिमन्तः । अर्शआदिभ्योऽच्' (5-2-127 ) इत्यच्प्रत्ययः । तथाभूतास्सन्तः
निषेदुः तस्थुरिति यत् । अपि च विषेदुः विषण्णा बभूवुरिति यत् तदुभयं उशना
शुक्र: । 'उशना भार्गवः कविः' इत्यमरः । तेषु दानवेषु विषये दुष्टं निमित्तमिति
भाव्यमृतालाभ सूचकदुश्शकुनमिति जगृहे जज्ञे ॥ अथेति ॥ अथ दानवश्रान्त्युप-
वेशानन्तरं चरसंज्ञकं लग्मं चरलमम् । 'राशीनामुदयो लमं ते तु मेषवृषादय: '
इत्यमरः । चरस्थिरद्विस्वभाव भेदेन लमत्रैविध्यं ज्योतिश्शास्त्र सिद्धम् । प्रतीक्षमाणः
प्रतीक्षां कुर्वन्नित्यर्थः । दिवौकसां देवानामाचार्यो गुरुः । 'बृहस्पतिः सुराचार्यः'
इत्यमरः । संवर्तः प्रलयकालः तस्योचितम् अर्हम् । 'संवर्त: प्रळय: कल्पः क्षयः
कल्पान्त इत्यपि' इत्यमरः । रूपं स्वभावम् । 'रूपं स्वभावे शुक्लादौ' इति