This page has been fully proofread twice.

शिवार्थी जन्तुस्तच्छिवमखिलभावेन भगवन्
भवन्तं हित्वान्यं शरणयतु के न्यायशरणः ॥ ३६ ॥
 
तदिदानीम् ।
 
मन्दिरं क्षाळयन्तस्ते मन्दरं दुग्धसागरे ।
अमृतं लब्धुमिच्छामस्तद्भवाननुमन्यताम् ॥ ३७ ॥' इति ॥
 
[commentary]
 
अन्तः हृदये सर्कलानि समस्तानि यानि जगन्ति लोकाः । 'लोकोऽयं विष्टपं जगत्' इत्यमरः । तेषां शिव मङ्गलम् । 'श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्’ इत्यमरः । ध्यायसि चिन्तयसि । 'शिवस्तु करुणासिन्धुः ध्यायन्नास्ते जगच्छिवम्' इत्यादिप्रसिद्धेरिति भावः । शिव मङ्गळं यच्छसि ददासि । भक्तेभ्य इति शेषः । 'पाघ्राध्मा --' (३.१.१३७) इत्यादिना 'दाण्'धातोर्यच्छादेशः, लटि सिप्श्पी इति बोध्यम् । तथा शिवरहस्ये -- सद्यः फलप्रदं पुण्यं मङ्गळं मङ्गलप्रदम् । दुष्टग्रहोपशमनं सर्वपातकनाशनम् ॥ सर्वदुःखप्रशमनं समस्ताधिविनाशनम् ।' इत्युक्तम् । त्वं भवान् नाम्ना नामधेयेन शिवः असि भवसि, 'नमश्शिवाय' च' इति श्रुतेः । तथा शिवतरः अतिशयेन शिवश्च विदितोऽसि प्रसिद्धो भवसि, 'शिवतराय च इति श्रुतेः । तत्तस्मात् हे भगवन् शिवार्थी शुभापेक्षी जन्तुः प्राणी । 'प्राणी तु चेतनो जन्मी जन्तुः' इत्यमरः । अखिलभावेन सर्वात्मना । 'भावस्सत्ता, स्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । शिवं महादेवम् । 'शिवो मोक्षे महादेवे कीलके ग्रहयोगयोः । बालके गुग्गुले वेदे पुण्डरीकद्रुमेषु च ॥ सुखे क्षेमेऽचले क्लीबम्' इति धनञ्जयः । भवन्तं त्वां, हित्वा त्यक्त्वा, न्यायः युक्तायुक्तविचारः स एव शरणं रक्षकं यस्य स तथाभूतः पुमान् । 'शरणं गृहरक्षित्रोः' इत्यमरः । अन्यं शिवातिरिक्तं कं देवं शरणयतु रक्षितारं कुर्यादित्यर्थः रक्षकवाचकाच्छरणशब्दात् 'तत्करोति' इति णिचि लोटि रूपम् । यस्य शिवनामापि अस्ति तं प्राप्य कः शिवं न प्राप्नुयादिति भावः । अथ मुख्यमीप्सितार्थं प्रार्थयन्ति ॥ मन्दिरमिति ॥ हे भगवन्निति शेषः । ते मन्दिरं
सदनीभूतं मन्दरमद्रिं दुग्धार्णवे क्षाळयन्तः क्षाळनं कुर्वन्तस्सन्तः तमद्रिं मन्थदण्डं कृत्वा । तेन मन्थने कृते तत्र सोऽद्रिः क्षाळितं एव भवतीति भावः । अमृतं