This page has been fully proofread once and needs a second look.

नीलकण्ठविजये संव्याख्याने
शिवार्थी जन्तुस्तच्छिवमखिलभावेन भगवन्
 

भवन्तं हित्वान्यं शरणयतु के न्यायशरणः ॥ ३६ ॥
 

 
तदिदानीम् ।
 
**
 

 
मन्दिरं क्षाळयन्तस्ते मन्दरं दुग्धसागरे ।
 

अमृतं लब्धुमिच्छामस्तद्भवाननुमन्यताम् ॥ ३७ ॥ इति ॥
 
Will

 
[comment
age,
 
ry]
 
अन्तः हृदये सर्कलानिंनि समस्तानि यानि जगन्ति लोका:काः । 'लोकोऽयं विष्टपं
जगत्' इत्यमरः 1 तेषां शिव मङ्गलम् । 'श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं
शुभमूम्’ इत्यमरः । ध्यायसि चिन्तयसि । 'शिवस्तु करुणासिन्धु:धुः ध्यायन्नास्ते
जगच्छिवम्' इत्यादिप्रसिद्धेरिति भावः । शिव मङ्गळं यच्छसि ददासि । भक्तेभ्य
इति शेषः । 'पाघ्राध्यामा -- (3-1-137३.१.१३७) इत्यादिना 'दाणूण्'धातोर्यच्छादेशः, लटि
सिप्
सिप्श्पी इति बोध्यम् । तथा शिवरहस्ये -- सद्यः फलप्रदं पुण्यं मङ्गळं मङ्गल-
प्रदम् । दुष्टग्रहोपशमनं सर्वपातकनाशनम् ॥ सर्वदुःखप्रशमनं समस्ताधि-
विनाशनम् ।' इत्युक्तम् । त्वं भवान् नाम्ना नामधेयेन शिवः असि भवसि,
'नमशिशश्शिवाय'च' इति श्रुतेः । तथा- शिवतर: शिवतरः अतिशयेन शिवश्च विदितोऽसि
प्रसिद्धो भवसि, 'शिवतराय च इति श्रुतेः । तत्तस्मात् हे भगवन् शिवार्थी
शुभांभापेक्षी- जन्तुः प्राणी । 'प्राणी तु चेतनो जन्मी जन्तुः' इत्यमरः । अखिल-
भावेन सर्वात्मनाःना । 'भावस्सत्ता, स्वभावाभिप्रायचेष्टात्मजन्मसु' इत्यमरः । शि
वं महादेवम् । 'शिवो मोक्षे महादेवे कीलके ग्रहयोगयोः । बालके गुग्गुले वेदे
पुण्डरीकद्रुमेषु च ॥ सुखे क्षेमेऽचले क्लीबम् इति धनञ्जयः । भवन्तं त्वां,
हित्वा त्यक्त्वा, न्यायः युक्तायुक्त विचारः स एव शरणं रक्षकं यस्य स तथाभूतः
पुमान् । 'शरणं गृहरक्षित्रो: ?रोः' इत्यमरः । अन्यं शिवातिरिक्तं कं देवं शरणयतु
रक्षितारं कुर्यादित्यर्थः रक्षकवाचकाच्छेरणशब्दात् 'तत्करोति' इति णिचि लोटि
रूपम् । यस्य शिवनामापि अस्ति तं प्राप्य कः शिवं न प्राप्नुयादिति भावः । अथ
मुख्यमीप्सितार्थं प्रार् प्रार्थयन्ति ॥ मन्दिरमिति ॥
हे भगवन्निति शेषः । ते मन्दिरं

सदनीभूतं मन्दरमद्रिं दुग्धार्णवे क्षाळयन्तः क्षाळनं कुर्वन्तस्सन्तः तमद्रिं मन्थदण्डं
कृत्वा । "तेन मन्थने कृते तत्र सोऽद्रिः क्षाळितं एव भवतीति भावः । अमृतं
 
..
 
*