This page has been fully proofread twice.

कृतसंविदो देवासुराः, प्रतिपद्य मन्दरं शैलम्, प्रणिधाय मनांसि, वर्तमानाः कठोरे तपसि, वाग्भिरस्तुवन् इत्थमम्बिकारमणम् ।
 
'युगविगमोन्मिषद्विषमलोचनकोणपत-
द्धूधुतवहविस्फुलिङ्गहुतसर्वजगद्धविषे ।
अचलधनुर्धराय हरिणाङ्कशिखामणये
विजयजयैकहेतुविशिखाय नमो भवते ॥ ३५ ॥
 
शिवं ध्यायस्यन्तस्सकलजगतां यच्छसि शिवं
शिवोऽसि त्वं नाम्ना ननु शिवतरश्चासि विदितः ।
 
[commentary]
 
'वष्टि भांभागुरिः"' इत्यादिना आवन्ततामाश्रित्य प्रयोगः कृत इति बोध्यम् । मन्दरं प्रतिपद्य आश्रित्य मनांसि प्रणिधाय निगृह्य कठोरे दुष्करे तपसि अनशनव्रतादौ वर्तमानाः देवासुराः इत्थं वक्ष्यमाणप्रकारं अम्बिकायाः पार्वत्याः रमणं प्रियं परशिवं स्तुवन् स्तुतिं चक्रुः । तं प्रकारमेवाह ॥ युगविगमेति ॥ युगानां कृतादीनां विगमः अवसानम् । नैमित्तिकप्रळय इति यावत् । अस्य दैनन्दिनपळय इति नामान्तरम् । अत्र प्रलये मानं तु -- 'एष नैमित्तिकः प्रोक्तः प्रळयो यत्र विश्वसृट् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चात्मभूः' इति वचनम् । तत्समये उन्मिषद्विकसद्यद्विषमलोचनं तृतीयनयनं उन्मीलितफालनेत्रमिति समुदिततात्पर्यार्थः । तस्य कोणमेकदेशः तस्मात् पतन् निपतन् यः हुतवहः प्रळयाग्निरिति यावत् । तस्य विस्फुलिङ्गाः कणाः । 'त्रिषु स्फुलिङ्गोऽमिग्निकणः' इत्यमरः । तेषु हुतं हवनं कृतं सर्वं स्थावरजङ्गमात्मकं जगदेव हविः चरुपुरोडाशस्थानीयं यस्य स तथाभूतः तस्मै । अचलो मेरुः स एव धनुः तस्य धराय धर्त्रे । विजयः अर्जुनः । 'विजयो जयपार्थयोः' इति नानार्थमाला । 'बीभत्सुर्विजयः कृष्णः' इति स्मरणाच्च । तस्य जयः शत्रुनिग्रहराज्यलाभादिरूपः तस्य
एकहेतुः मुख्यकारणं वासुदेवः । 'मयैव ते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्' इति गीता (११-१३) शास्त्रादिति भावः । स वासुदेवः विशिखोबाणः यस्य स तथाभूतः तस्मै । हरिणाङ्कः मृगाङ्कः, चन्द्र इति यावत् । स शिखामणिः शिरोमणिः यस्य स तथाभूताय भवते तुभ्यं नमः अस्तु । मेरुधन्वत्वं हरिशरत्वं च परमेश्वरस्यास्तीत्युक्तं जैमिनिना वेदपादस्तवे -- 'रथो भूर्ज्या फणी शौरिः शरश्चापो
गिरिर्हयः । त्रयी रथाङ्गे चन्द्रार्कौ ब्रह्मा भवति सारथिः ॥' इति । शिवमिति ॥