This page has not been fully proofread.

तृतीयांश्वासः
 
कृतसंविदो देवासुराः, प्रतिपद्य मन्दरं शैलम्, प्रणिधाय मनांसि,
वर्तमानाः कठोरे तपसि, वाग्भिरस्तुवन् इत्थमम्बिकारमणम् ।
'युगविगमोन्मिष द्विषमलोचनकोणपत-
हुतवह विस्फुलिङ्गहुतसर्वजगद्धविषे ।
अचलधनुर्धराय हरिणाङ्क शिखामणये
विजयजयैकहेतु विशिखाय नमो भवते ॥ ३५ ॥
शिव घ्यायस्यन्तस्सकलजगतां यच्छसि शिव
शिवोऽसि त्वं नाम्ना ननु शिवतरश्चासि विदितः ।
 
'वष्टि भांगुरिः" इत्यादिना आवन्ततामाश्रित्य प्रयोगः कृत इति बोध्यम् । मन्दरं
प्रतिपद्य आश्रित्य मनांसि प्रणिधाय निगृह्य कठोरे दुष्करे तपसि अनशन-
व्रतादौ वर्तमानाः देवासुराः इत्थं वक्ष्यमाणप्रकारं अम्बिकायाः पार्वत्याः रमणं
प्रिय परशिव स्तुवन् स्तुतिं चक्रुः । तं प्रकारमेवाह ॥ युगविगमेति ॥
युगानां कृतादीनां विगमः अवसानम् । नैमित्तिकप्रळय इति यावत् । अस्य दैन-
न्दिनपळेय इति नामान्तरम् । अत्र प्रलये मानं तु – 'एष नैमित्तिकः प्रोक्तः प्रळयो
यत्र विश्वसृट् । शेतेऽनन्तासने नित्यमात्मसात्कृत्य चात्मभूः' इति वचनम् । तत्स-
मये उन्मिषद्विकसद्यद्विषमलोचनं तृतीयनयनं उन्मीलितफालनेत्रमिति समुदितता-
त्पर्यार्थः । तस्य कोणमेकदेशः तस्मात् पतन् निपतन् यः हुतवहः प्रळयाग्निरिति
यावत् । तस्य विस्फुलिङ्गाः कणाः । 'त्रिषु स्फुलिङ्गोऽमिकणः' इत्यमरः । तेषु
हुतं हवनं कृतं सर्वे स्थावरजङ्गमात्मकं जगदेव हवि: चरुपुरोडाशस्थानीयं
यस्य स तथाभूतः तस्मै । अचलो मेरुः स एव धनुः तस्य धराय धर्त्रे ।
विजयः अर्जुनः। 'विजयो जयपार्थयोः' इति नानार्थमाला । 'बीभत्सु -
विजय: कृष्णः' इति स्मरणाच्च । तस्य जयः शत्रुनिग्रहराज्यलाभादिरूपः तस्य
एकहेतुः मुख्यकारण वासुदेव: । 'मयैव ते निहताः पूर्वमेव निमित्तमात्रं भव सव्य-
साचिन्' इति गीता (11-33 ) शास्त्रादिति भावः । स वासुदेवः विशिखोबाणः
यस्य स तथाभूतः तस्मै । हरिणाङ्क: मृगाङ्कः, चन्द्र इति यावत् । स शिखामणिः
शिरोमणिः यस्य स तथाभूताय भवते तुभ्यं नमः अस्तु । मेरुधन्वत्वं हरिशरत्वं च
परमेश्वरस्यास्तीत्युक्तं जैमिनिना वेदपादस्तवे- 'रथो भूर्ज्या फणी शौरिः शरश्चापो
गिरिर्हयः । यी रथाङ्गे चन्द्राको ब्रह्मा भवति सारथिः ॥' इति । शिवमिति ॥
N - 28
 
-