2023-09-15 06:11:45 by Bharadwajraki
This page has been fully proofread twice.
क्रोशंक्रोशमवाप वार्षिकनिशामण्डूकवद्यः श्रमं
युष्माभिश्श्रुतिगोचरं न गमितश्शङ्के स लङ्केश्वरः ॥ ३३ ॥
अपि द्रष्टुमशक्यो यः सिद्धैरपि महर्षिभिः ।
विना शम्भोः प्रसादेन कथमुत्पाटयेम तम् ॥ ३४ ॥
तदद्य वयं सर्वे प्रमद्य भगवन्तमुमाकान्तम्, प्रसाद्य वाङ्मनःकायैः, प्रार्थयेमहि प्रार्थनीयम् इति ।
ततस्साधु साध्वित्यभिनन्द्यमाना भार्गवाङ्गिरसाभ्यामन्योन्य
[commentary]
कैलासाद्रिं विक्षोभयन् । अत एव 'क्षुभ'धातोर्विपूर्वाच्चलनार्थकाण्णिजन्ताल्लटश्शत्रादेशः । शूलिनः परमेश्वरस्य पादाङ्गुष्ठं पादस्थूलाङ्गुलिः तस्य यन्नखाग्रं तस्य यद्यन्त्रणं दृढं स्थापनं तेन दळन्तः त्रुट्यन्तः दोष्णां बाहूनाम् । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । ये सन्धयः जत्रूणि । 'स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी’ इत्यमरः । बन्धाः ग्रथनानि यस्य स तथाभूतः अत एव चिरं बहुकालं वार्षिक्यो वर्षाकालसम्बन्धिन्यः या निशा रात्रयः । 'स्त्रियाः पुंवत्' (६.४.३४) इत्यादिना पुंवद्भावः । तासु यो मण्डूकः भेकः । 'भेके मण्डूकवर्षाभूः' इत्यमरः । तेन तुल्यं तद्वत् । क्रोशंक्रोशं रुदित्वा रुदित्वा । रुत्वा रुत्वेति वाऽर्थः । 'क्रुश आह्वाने रोदने च' इति धातोः णमुल्प्रत्ययः द्विर्भावश्च । श्रमम् आयासम् अवाप प्राप । स लङ्काया ईश्वरो रावणः युष्माभिः श्रुतिगोचरं श्रवणदेशं न गमितः न प्रापितः किमित्यर्थः ॥ अपीति ॥ सिद्धैर्महर्षिभिरपि यः मन्दराद्रिः द्रष्टुमपि दृग्विषयीकर्तुमपीत्यर्थः । अशक्यः अलभ्य इति तात्पर्यार्थः । शम्भोः प्रसादेन अनुग्रहेण विना तमद्रिं कथमुत्पाटयेम उत्खननं कुर्म इत्यर्थः ॥ तदिति ॥ तत्तस्मात् सर्वे वयं भगवन्तमुमाकान्तं पार्वतीपतिं प्रपद्य सेवित्वा प्रसाद्य प्रसादयित्वा । अनुग्रहं लब्ध्वेति यावत् । वाङ्मनःकायैः मनसा वाचा कायेन चेत्यर्थः । प्रार्थनीयमभ्यर्थनीयं प्रार्थयेम याचामहे इत्यर्थः ॥ तत इति ॥ ततः उक्तरीत्या समयबन्धानन्तरं
भार्गवाङ्गिरसाभ्यां शुक्रबृहस्पतिभ्यां साधु साधु । द्विर्भाव आदरार्थः । 'चारु सुषमं साधु शोभनम्' इत्यमरः । इत्यनुमन्यमानास्संमन्यमानाः अन्योन्यं परस्परं कृताः बद्धाः संविदः प्रतिज्ञा येषां ते तथाभूताः । 'संविदागूः प्रतिज्ञानम्' इत्यमरः । यद्यपि कोशे संविच्छब्दः प्रतिज्ञापरतया निर्दिष्टः, तथापि तस्यैव हलन्तस्यात्र