This page has not been fully proofread.

२१६
 
नीलकण्ठविजये सव्याख्याने
 
क्रोशंक्रोशमवाप वार्षिक निशामण्डूकवद्यः श्रमं
 
युष्माभिश्श्रुतिगोचरं न गमितश्शङ्के स लङ्केश्वरः ॥ ३३ ॥
अपि द्रष्टुमशक्यो यः सिद्धैरपि महर्षिभिः ।
विना शम्भोः प्रसादेन कथमुत्पाटयेम तम् ॥ ३४ ॥
 
तदद्य वयं सर्वे प्रमद्य भगवन्तमुमाकान्तम्, प्रसाद्य वाङ्मनःकायैः,
प्रार्थयेमहि प्रार्थनीयम् इति ।
 
ततस्साधु साध्वित्यभिनन्द्यमाना भार्गवाङ्गिरसाभ्यामन्योन्य
कैलासाद्रिं विक्षोभयन् । अत एव 'क्षुभ'घातोर्विपूर्वाच्चलनार्थकाण्णिजन्ताल्लटश्शत्रा-
देशः। शूलिन: परमेश्वरस्य पादाङ्गुष्ठं पादस्थूलाङ्गुलि: तस्य यन्नखाग्रं तस्य यद्य-
न्त्रणं दृढं स्थापनं तेन दळन्तः त्रुट्यन्तः दोष्णां बाहूनाम् । 'भुजबाहू प्रवेष्टो दो : '
इत्यमरः । ये सन्धयः जत्रणि । 'स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रणी
इत्यमरः । बन्धाः ग्रथनानि यस्य स तथाभूतः अत एव चिरं बहुकालं वार्षिक्यो
वर्षाकालसम्बन्धिन्यः या निशा रात्रयः । 'स्त्रियाः पुंवत्' (6-4-34) इत्यादिना पुंवद्भावः।
तासु यो मण्डूकः भेक: । 'भेके मण्डूकवर्षाभू:' इत्यमरः । तेन तुल्यं तद्वत् ।
क्रोशंक्रोशं रुदित्वा रुदित्वा। रुत्वा रुत्वेति वाऽर्थः । 'कुश आह्वाने रोदने च' इति
धातोः णमुल्प्रत्ययः द्विर्भावश्च । श्रमम् आयासम् अवाप प्राप । स लङ्काया ईश्वरो
रावण: युष्माभिः श्रुतिगोचरं श्रवणदेशं न गमित: न प्रापितः किमित्यर्थः
॥ अपीति ॥ सिद्धैर्महर्षिभिरपि यः मन्दराद्रिः द्रष्टुमपि दृग्विषयीकर्तुमपीत्यर्थः ।
अशक्यः अलभ्य इति तात्पर्यार्थः । शम्भोः प्रसादेन अनुग्रहेण विना तमद्रिं
कथमुत्पाटयेम उत्खननं कुर्म इत्यर्थः ॥ तदिति ॥ तत्तस्मात् सर्वे वयं भगवन्तमु -
माकान्तं पार्वतीपतिं प्रपद्य सेवित्वा प्रसाद्य प्रसादयित्वा । अनुग्रहं लब्ध्वेति या-
बत् । वाङ्मनः कायै: मनसा वाचा कायेन चेत्यर्थः । प्रार्थनीयमभ्यर्थनीय प्रार्थ-
येम याचामहे इत्यर्थः ॥ तत इति ॥ ततः उक्तरीत्या समयबन्धानन्तरं
भार्गवाङ्गिरसाभ्यां शुक्रबृहस्पतिभ्यां साधु साधु । द्विर्भाव आदरार्थ: । 'चारु
सुषमं साधु शोभनम्' इत्यमरः । इत्यनुमन्यमानास्संमन्यमानाः अन्योन्यं परस्परं कृताः
बद्धाः संविदः प्रतिज्ञा येषां ते तथाभूताः । 'संविदागू: प्रतिज्ञानम्' इत्यमरः ।
यद्यपि कोशे संविच्छब्दः प्रतिज्ञापरतया निर्दिष्टः, तथापि तस्यैव हलन्तस्यात्र