This page has been fully proofread twice.

सागरे निपातयितुमुत्साहयामास बलिम् ।
 
ततः 'कियदेतदुत्पाटनं नाम गिरेः, विधमामो मुखमारुतेन, विक्षिपामोऽङ्गुलिस्फोटेन, समुद्धरामो वामहस्तेन, संक्रमयामस्सायकेनैकेन' इति बलोत्सेकादुच्चावचं गर्जत्सु दानवेषु, बलिरिदमवादीत् ।
 
'हन्त कथमर्भका इव यूयमकृतप्रज्ञा इव निरङ्कुशं प्रतिजानीध्वे ।
 
विंशत्यापि भुजैः पुरा गिरिवरं विक्षोभयन् शूलिनः
पादाङ्गुष्ठनखाग्रयन्त्रणदळद्दोस्सन्धिबन्धश्चिरम् ।
 
[commentary]
 
यन्मथनं विलोडनं तस्मिन् उपायं साधनं भवानाख्यातु ब्रूहीत्यर्थः । भवद्योगान्न मध्यमः । इतीत्थं दानवेषु असुरेषु अनुयुञ्जानेषु पृच्छत्सु सत्सु पुरन्दरः इन्द्रः यथाश्रुतं श्रुतमनतिक्रम्य आख्याय उक्त्वा, तं मन्दरमद्रिमेव उत्पाट्य उत्पाटनं कृत्वा सागरे अर्णवे पातयितुं निपातयितुं बलिमसुरराजम्, उत्साहयामास उत्साहवन्तं चकारेत्यर्थः ॥ तत इति ॥ ततः नारायणादेशोपदेशश्रवणानन्तरं दानवेषु असुरेषु गिरेर्मन्दरस्य उत्खननं उत्पाटनं नामैतदिदं कियत् किं महागुर्विति भावः । मुखमारुतेन, विधमामः ध्मानं कुर्मः । यथा हस्तस्थं भस्मसञ्चयं मुखवायुना उत्पतन्तं कुर्मः तथैतमद्रिं मुखमारुताध्मानेन उत्पतन्तं कुर्मः इति भावः । अङ्गुल्याः स्फोटेन शब्देन विक्षिपामः । वामहस्तेन सव्यकरेण । 'वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्' इत्यमरः । समुद्धरामः उत्पाटयामः एकेन सायकेन बाणेन सङ्क्रमयामः प्रापयामः । सर्वत्र मन्दराद्रेः कर्मतया गम्यमानत्वात्तद्वाचकपदस्याप्रयोगः । इतीत्थं बलोत्सेकात् बलदर्पादित्यर्थः । उच्चावचं अनेकप्रकारम् । 'उच्चावचं नैकभेदम्' इत्यमरः । गर्जुत्सु नदत्सु, बलिरसुरेन्द्र इदं स्त्रबुद्धिस्थं अवादीदभाणीत् । व्यक्तवाग्वाचकाद्वदतेर्लुङि 'वदव्रज --’ (७.२.३) इत्यादिना वृद्धिः ॥ हन्तेति ॥ यूयं अर्भकाः शिशव इव युक्तायुक्तापरिज्ञानादिति भावः । अकृतप्रज्ञा अशिक्षितबुद्धय इव शक्याशक्यापरिज्ञानादिति भावः । कथं प्रतिजानीध्वे प्रतिज्ञां कुरुथेत्यर्थः । हन्तेति विषादादौ । 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः' इत्यमरः ॥ विंशत्येति ॥ पुरा पूर्वं यः रावणः विंशत्या विंशतिसङ्ख्याकैः भुजैः बाहुभिरपि । 'विंशत्याद्यास्सदैकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः' इत्यभिधानात् विंशतिशब्दस्य अलैत्रैकवचनान्ततया निर्देशः । गिरिवरं