This page has not been fully proofread.

२१४
 
नीलकण्ठविजये सव्याख्याने
 
व्यापते त्वयि तपसि राज्यमिदं व्याकुलीभवेदिति संरक्ष्यतेऽस्माभि-
रनियुक्तैरपि साह्यमेवानुचिन्त्य भवतः ।
 
एकेन निघृतं राज्यमियन्तो वयमीदृशाः ।
निर्वहन्तोऽद्य जानीमो नैपुण्यं वत्स तावकम् ॥ ३१ ॥
अमृतं यदि भोक्तव्यमनुमन्यामहेतराम् ।
'संविभज्यैव तद्भोज्यं न निर्भज्येति नो मतिः ॥ ३२ ॥
 
तदाख्यातु भवानर्णवमथनोपायमादिष्टं नारायणेन' इत्यनु-
युञ्जानेषु दानवेषु यथाश्रुतमाख्याय पुरन्दरस्तमेव मन्दरमुत्पाटय
 
इति निपातनात्साधुः । तव शिवपूजाधुरन्धरत्वादिति भावः । हे मघवन् इन्द्र बाल
एव बालक: । 'अनुकम्पायाम् ( 5-3-76) कनूप्रत्यय: । 'बालस्तु स्यान्माणवको
वयस्स्थस्तरुणो युवा' इत्यमरः । तेन भवता त्वया नोऽस्माकं इदं कुलं अन्वयः
अनाकुलमव्याकुलं सत् प्रतितिष्ठति प्रतिष्ठामाप्नोति । एकेन सुपुत्रेण भवतैवास्मदीयं
निखिलं कुलं शोभत इति भावः ॥ व्याप्त इति ॥ त्वयि तपसि विषये
व्यापृते उद्युक्ते सति, इदं राज्यं सौवर्गराज्यमित्यर्थः । व्याकुलीभवेत् पर्याकुलं
स्यात् । इति मत्वेति शेषः । भवतः तव साह्यं सहायकमनुचिन्त्य पर्यालोच्य,
अस्माभिस्संरक्ष्यते पाल्यते । न तु भवतो राज्याप जिहीर्षयेति भावः ॥ एके-
नेति ॥ हे वत्स इन्द्र एकेन असहायेन त्वयेति शेषः । निधृतं निर्व्यूढं
इदं राज्यं राज्ञः कर्म इयन्त: बहव इति भावः । ईदृशाः सहस्रबाहुत्वादि-
विशिष्टाः । निर्वहन्तः निर्वाहं कुर्वन्तः वयं तावकं त्वदीयं नैपुण्यं चातुर्य
अद्य जानीमः विद्मः ॥ अमृतमिति ॥ अमृतं पीयूषं भोक्तव्यं यदि
अमृताशनं कार्यं यदीति तात्पर्यार्थः । अनुमन्यामहेतराम् अनुमतिं कुर्महे ।
तदमृतं संविभज्यैव संविभागं कृत्वैवेत्यर्थः । भोज्यं भोजनं कार्य निर्भज्य
भागमकृत्वा । 'निर्निश्चयनिषेधयोः' इत्यमरः । न भोज्यमित्यन्वयः । यदि न
विभज्येति पाठः तदैकं पदम् । अर्थ: प्राग्वत् । इतीत्थं नोऽस्माकं मतिर्निश्चयः ।
॥ तदिति ॥ तत् तस्मात् नारायण: वासुदेवः तेनादिष्टमुपदिष्टं अर्णवस्य समुद्रस्य
1. " संविभज्यैव तद्भोज्यं, न निर्भज्य ". -इत्यनेन "एक: स्वादु न भुञ्जीत"-
इत्यनुशासनं, तत्रापि सोदरैः विभाग एव सर्वस्य कार्यः इति मनुनीति च दर्शयति ॥
 
-