2023-06-05 16:38:54 by ambuda-bot
This page has not been fully proofread.
rii
कवेः कृतय उपलभ्यमानास्त्वेताः -
(1) कलिविडम्बनम् ( 2 ) सभारञ्जनशतकम् (3) अन्यापदेश-
शतकम् ( 4 ) शान्तिविलासः (5) वैराग्यशतकम् ( 6 ) आनन्दसाग-
रस्तवः (7) नलचरितनाटकम् (8) शिवतत्त्वरहस्यम् (9) शिवलीलार्णव-
महाकाव्यम् (द्वाविंशतिसर्गात्मकम् मुद्रितम् व्याख्यासापेक्ष कवे: सर्वस्वभूतम् )
(10) गङ्गावतरणम् (अष्टसर्गात्मकं काव्यम्) (11) नीलकण्ठविजयचम्पू:
(12) कैयटव्याख्यानम् इतीमाः प्रसिद्धाः । एतेषु कैयटव्याख्यानं न
मुद्रितम् । विशिष्टवैयाकरणानां एतेषां कैयटव्याख्यानं स्यादेव महाभाष्यादिवत्
सर्वपरिग्रा प्रमाणभूतं ग्रन्थरत्नमिति निश्चिनुमः ।
एतावद्गुणगणभरितस्य ग्रन्थस्यास्य भारद्वाजवेल्लालमहादेवसूरिविर -
चिता नातिसंक्षेपविस्तरा व्याख्या 'रत्नं समाश्लिष्यतु काञ्चनेन' इति न्यायेन
अतीव भूषयन्ती विराजते । इयमेकैव व्याख्याऽद्ययावत् वर्तते । व्याख्यान्तरं
नास्तीति वदन्ति । व्याख्याताऽयं प्रौढविद्वान्, कोशव्याकरणाभिज्ञः मूलोचितं
सङ्गतं प्रमाणप्रदर्शनपुर: सरं व्याख्यानमारचयति । अतिनिपुणोऽपि व्याख्याता
अलङ्कारप्रदर्शने प्रायस्तूष्णीक: । परमेतद्वयाख्यानाभावे बहुत्र मूलभावबोधो
न सुलभ इत्यतः परमादरणीयेयं व्याख्या । सर्वेषु च शास्त्रेषु, विशिष्य शैवागमेषु
निपुण इति व्यक्तमत्र – २०५ - २०९ पुढेषु ।
व्याख्यातुर्विषये विशिष्य न कोऽपि परिचय उपलभ्यते । स्वयं नैकग्रन्थ-
कर्ता इति ज्ञायते । विद्वत्परम्पराजनिमान् इत्यपि तत्र तत्र (पु. 305) स्वपूर्वैः
कृतानां पद्यानामुदाहरणाज्ज्ञायते । इतोऽधिकं किमपि नोहितुमस्त्यवकाशः ।
श्रीमुदलियाण्डान् सन्निधि:
विद्वदधिरेणु:
:}
९-८-१९७२
चेट्टलूर् वा. श्रीवत्साङ्काचार्यः