This page has been fully proofread twice.

किं कर्तव्यमितोऽपि केवलमिह श्रान्तोऽस्मि शान्तोऽस्मि च
प्राप्तं तत्परमामृतं यदि भवत्याज्ञा यतिष्ये सुखम् ॥ २९ ॥
 
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः 'मैवमाखण्डल मैवम् ।
 
त्वमसि शतक्रतुस्त्वमसि नीतिपथे कुशलः
त्वमसि दयास्पदं भगवतः प्रमथाधिपतेः ।
अपि खलु बालकेन भवता भवता मघवन्
निखिलमनाकुलं कुलमिदं [‌‍^१]प्रतितिष्ठते नः ॥ ३० ॥
 
[commentary]
 
भ्रातर इत्यर्थः । 'प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः । त्रिलोका एव त्रैलोक्यं तस्य यद्राज्यं राजभावः तस्यार्पणात् भवदधीनकरणाद् गुरवः यूयं ज्येष्टभ्रातृत्वात्तेषां गुरुत्वमिति भावः । आराद्धाः पूजिता वा । राधतेरनुदात्तत्वात् इडागमाभावः । शक्तितः गुरुभार्गवप्रभृतयः गुरुशुक्रादयः ब्रह्मर्षयः
आराद्धाः पूजिता एव । यथाशक्ति तानपि पूजितवानस्मि, नमस्कारवन्दनादिभिरिति भावः । इह इदानीम् इतोऽन्यत् केवलं किं कर्तव्यं कोऽपि कर्तव्यांशः नावशिष्ट इति भावः । श्रान्तः श्रमवानस्मि, तप आदिकं कृत्वेति भावः । शान्तोऽस्मि निगृहीतान्तरिन्द्रियश्चास्मि, सर्वत्र तुच्छबुद्ध्येति भावः । तत्तादृशं परममुत्कृष्टम्, अमृतं सुधां प्राप्तुं आज्ञा निदेशः यदि भवति स्याच्चेदिति तात्पर्यार्थः ।सुखमनायासं यथा तथा यतिष्ये यत्नं करिष्ये ॥ इतीति ॥ इति इत्थं वदन्तमाभाषमाणं इन्द्रं प्रति असुरेश्वराः दानवश्रेष्ठाः आहुः ऊचुरित्यर्थः ॥ मैवमिति ॥ हे आखण्डल मैवं मैवं एवं मा वक्तव्यमित्यर्थः ॥ त्वमिति ॥ त्वं शतं क्रतवो यागा यस्य स तथाभूतः । 'सप्ततन्तुर्मखः क्रतुः' इत्यमरः । असि भवसीत्यर्थः । त्वं नीतिः नयः । 'नीतिस्स्यात् प्रापणे नये' इति नानार्थमाला ।
तस्याः पन्थाः मार्गः तस्मिन् कुशलः शिक्षितः । 'पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु' इत्यमरः । असि । त्वं भगवतः षड्गुणशालिनः प्रमथानामधिपतेः परमेश्वरस्य दयायाः कृपायाः आस्पदं भाजनमसि । 'आस्पदं प्रतिष्ठायाम्' (६.१.१४६)
 
[‌‍^१] 'प्रतितिष्ठते -- ' इति न साधुः । व्याख्यातापि 'प्रतितिष्ठति' -- इति पाठमादायैव व्याचष्टे ॥